पृष्ठम्:विमानार्चनाकल्पः.pdf/92

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

56 शांतिकं पश्चिमशीर्ष पौष्टिकं दक्षिणशीर्ष जयदं उत्तरशीर्षमाभिचारिकम्। ग्रामाद्दक्षिणे शयानं उत्तरद्वारं चेत् प्राक्शीर्ष पश्चिमे प्राकू द्वारं चेद्दक्षिणशीर्षम्, उत्तरे दक्षिणद्वारं चेत्पश्चिमशीर्ष प्राच्यां पश्चिम द्वारंचेत् दक्षिणशीर्षमेव कारयेत् । स्थानकासनशयनानि ग्रामप्रेक्षाण्येवकारयेत् । उत्तरेभितिमूले पार्श्व श्वेताभ चतुर्भुजं मृगपरशुधरम्अभयं कट्यवलंबितहस्तं शङ्करें दक्षिणाभिमुखं स्थितमेव कात्येत्। तदुत्तमं योगस्थानकम्। ब्रह्मशङ्कराभ्यां हीनं मध्यमं, पूजकमुनिभ्यां हीनमधमम् ॥ भोग स्थानक वैविध्यम् कटघवलंबित सिह्मकुण्ठ (र्ण) वामूहस्तं, तथा ब्रहोशै। दक्षिणे श्रियदेवीं प्रसारितवामकरों देवर्किधित्समीक्ष्य स्थितां, वामे हरिणों श्यामाभां रेितदक्षिप्गहस्तां धृतं इस्तां संस्थित वामपादां किंचित्कुंचितदक्षिणपादां देवं किंचित्समीक्ष्य स्थित करवेत्। देयो हस्तपादी वामेनोत्कटिकमासीनं सपद्मवामहस्तं दक्षिणोरुनिहितदक्षिणकरं, बामे पुराणं बामेन जानुनासीनं दक्षिणेनोत्कटिकमासीनं सपद्म दक्षिणहस्तं वामोरुविन्यस्तबामकरंकारयेत् । एवमासयित्वा हस्तौ संपुटाँवा कारयेत्।