पृष्ठम्:विमानार्चनाकल्पः.pdf/89

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 18 53 सहित तिलजेनसार्ध बिल्वफलसारं यथाभार्ग संयोज्याऽर्धमासं वासयेत्। तस्मिन् रजनी कटुकं त्रयश्चूर्णं तद्दशांशं संयोज्य श्लक्ष्णं कृत्वा तदर्धं कपित्थ निर्यास चूर्ण हरताळ कोष्टरोचनाकृष्णचंदनागरुचूर्ण च यथालाभं सुवर्णरजत चूर्णयुतं कदळीफलनाळिकेर सलिलं गोक्षीरं च संयोज्य संमर्य नदीपर्वतसस्यक्षेत्र वल्मीकसमुद्रजलगजवृषवृंगोद्रेदकुळीरावटजां मृदं च सुमुहूर्ते चाऽऽलयाभिमुखे गार्हपत्याग्निकुंण्डं कृत्वा आघारं हुत्वा अग्ने: पश्चिमस्यां (मायां) पूर्ववत् धान्यपीठे नववस्त्रे मृदं संन्यस्य ‘मांसेभ्यो नमः' इत्यभ्यर्च्य अधिवास्याऽग्निं परिस्तीर्य महीसूक्तं, भूमि देवत्यं, विष्णुसूक्तं, पुरुषसूक्तं, वैष्णवं, मुन्योर्मत्रांश्च हुत्वा ‘मांसेभ्यःस्वाहे' त्यष्टोत्तरशतं जुहुयात्। आचार्य पूजयेत् । देवं ध्यायन् ब्रेक्षरादिन' मृदुमभिमृश्य मेदिन्यार्दीन् पारमात्मिकें च जपन् स्जुबन्धादुपरिष्टादुत्तमोगादि महांगेषु मृदमालिप्य पश्वाच्छिल्पिनमाहूय पूजयित्वा हस्तेन विना सर्वांगेषु करण्डिकयाऽऽलिप्य पुनरपेि रज्युं तथाऽऽबध्य शोषयित्वा पश्चान्मृदं संयोज्य तदूर्ध्वे रर्जुं न योजयेत् तदूध्र्वेरत्नानि सन्यसेत्। हृदये पद्यरार्ग ग्रीवायां भौतिकं बाहोबैंडूर्य नाभी ब्रह्ममणि मेढ़ेसौवर्ण पादयोः पुष्यकें दक्षिणनयने सूर्यकान्तं वामे चंद्रकान्त च पारमात्मिकं च जप्त्वा संन्यसेत् । मासेऽतीते शर्कराकल्कलं संलेपयेत्। शर्करालेपनम् अथ शर्कराग्रहणं वक्ष्ये-पुण्यनक्षत्रे समीपे नदीती रेवाऽन्यस्मिन्मन्मनोरमे शुद्धेदेशे खनित्वा आहृत्य प्रक्षाल्य संशोध्य चूर्णकृत्य त्रिफलोदकेन सिंचन् शनैःशनैः शोषयित्वा कपित्थनिर्यास तोयेनाऽऽलोङय देवताभ्यः स्वाहेतिव्याहृत्यन्तं जुहुयात् । ‘एतत्परिषदः मिति अग्निं विसृजेत्।