पृष्ठम्:विमानार्चनाकल्पः.pdf/84

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

48 विमानार्चनाकल्पे महाशास्त्रे पूर्वपक्षे कर्त्तुरनुकूलर्क्षे तदर्थमाचार्यो यजमानश्च साधनै र्होमसंभारैः शिल्पिभिस्सार्धं प्राङ्मुख उदङ्मुखो वा वनं गत्वा निमित्तानि संलक्षयेत्। क्रौञ्चच क्रिवायसपिंगळाऽक्ष चकोर कपोतहंस कृकलासादयो दक्षिणगा: शुभाः अभ्युदयकराश्च, चाषः श्र्येनश्चटिट्टिभाः वामगाः सिद्धिदाः गृहगौळीकौशिकक्रोष्टु पिंगलाक्षवन्कुक्कुटाद्या वामत स्सर्वे सिद्धिप्रदा: प्रभामिनीवष्णे वध्वजच्छत्रपूर्णकुंभशुक्लवसन पुष्पगजवृषगोमिथुनदधिपयो रूधिर मासां मधुभाण्डगर्भिणी सुरावेश्र्या यदिदृश्र्यंते तच्छुभकरं भवति । इत्येवं शिलाग्रहणकालेपि ज्ञेयम् । शुभे मुहूर्ते तं वृक्षमासाद्य परितस्तृणगुल्मलतादीन् संशोध्य अस्मिन् देशे 'वसंत उद्वसते' त्युक्त्वा शान्तिं वाचयित्वा वृक्षस्योत्तरपाश्वे वास्तुहोमं हुत्वा वृक्षमूले पर्यग्निकरणं कृत्वा पश्चगव्यैस्समभ्युक्ष्य पुण्याहंवाचयित्वा चरुं पत्क्वातिमचूर्ण सक्तुमुद्रनिष्पावयुतं, वृक्षमूले वनराजायेति परित: प्रागादीशानान्तं 'वनर्पतिभ्यो, वनदेवताभ्यो, भूतेभ्यो,यक्षेभ्यः, पिशाचेभ्यो, नागेभ्यो, विध्याधरेभ्योSष्टादशगणेभ्यश्चे' ति पूर्वमुदकं पुष्पंबलिमुदकं च दध्यात | 'अस्तुतृप्ति'रित्युक्त्वा आचार्यं संपूजयेत् | आचार्यः प्राङ्ग्मुख उदङ्ग्मुखो वा 'इदं विष्णु' रितिहस्ताभ्यां द्रुमंसंगृह्य परशुमादाय विष्णुगायत्रीं, 'सोमं राजानं’ च जपन् प्रागादि चतुर्दिशं छित्वा पश्चात्तक्षाणमाहूयाऽभिपूज्य सर्वं छेदयेत् । महादिक्षु पतनंश्रेष्टं विदिक्षुपतनं मध्यमं अन्यासुदिक्षु अधमं यथोचितं छित्वा ऊर्ध्वभाग मुखं पार्श्चादिचाऽङ्कयेत् । यजमान आचार्यादिभ्यो दक्षिणां दत्वा तं वृक्षं शकटे समारोष्य नरैर्वाहयित्वा आलयमाविश्य कर्ममण्डपे संस्थाप्य शोषयित्वा प्रतिमा विधानेनाऽत्वरेण कारयेत् । ध्रुवबेरोक्त्तमानेष्विष्टमानं विनिश्चित्यतन्मानं चतुर्विंशतिशतभागं विभज्य एकांशं देहलब्धांगुलंतच्छूलानामग्रं पादं-विदित्वा तल्लक्षणोपेतं तनुकरणं कृत्वा शूलानाहृत्योर्ध्वकायमधः कायं च समं कुर्यात् । वंशदण्डस्याऽऽया म(मं) द्विषट्यंगुलं स्थानकासनशयनानां मेद्राऽन्तं नाभ्यन्तं चतुरश्रं नाभेर्हिक्कान्तमष्टाश्रं हिक्काया उष्णी षान्तं वृत्तम् अन्येषां देवानां चतुरश्रं नियुञ्जीत । वंशदण्ड मूलविस्तारं भागार्धंगुलम् अग्रभाग मूलादष्टांशोनं वा, अासनस्याऽष्टांगुलमधिकं नीत्वा चतुरंगुल मवगाढप्रवेशं चतुरंगुलमासनोदयं भवति ।