पृष्ठम्:विमानार्चनाकल्पः.pdf/83

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: 17 47 'प्रतद्विष्णु' रिति देवं संस्थाप्य पश्चादष्टबन्धं प्रयोजयेत्। लाक्षागुडमधू च्छिष्टगुग्गुलून् परस्परं समभगं कृत्वा एषां द्विगुणं सज्जरसं, गैरिकं, घनचूर्णमर्धं, सर्वेषामर्धं तैलं संयोज्य लोह पात्रेनिक्षिप्य लोहदर्व्यासमेनाग्निना सुपव्कं पचेत्, तद्वन्ध मानीय तत्पीठरन्ध्रे प्रक्षिपेत् तत्द्ददं दृषत्समंभवति। तस्य ध्रुवबेरोक्तशुद्धिं कृत्वा पश्चादाचार्यश्शय्यावेदिमासाद्य कुंभं संगृह्य शिरसाधारयन् अग्रतो गच्छेत् । स्थापका औत्सवं बलिबेरं चादायाऽनुगच्छेयुः आलयं प्रदक्षिणीकृत्याऽभ्यंतरं प्रविश्य देवाभिमुखेधान्योपरि कुम्भंसन्यस्य मुखमण्डप औत्सवं बलिबेरं च प्रतिष्ठापयेत् । अाचार्यश्चाऽऽत्मसूक्तं जप्त्वा मन्त्रन्यासमक्षरन्यासं च कृत्वा समाहित-उत्तराभिमुखोभूत्वा देवं ध्यायन् 'इदंविष्णु' रिति कुम्भस्थां शक्तिमादाय 'आयातुभगवा' निति बिम्बस्य मूर्ध्नि 'विष्नुमावाहयामि' तिसंस्त्राव्य आवोहयेत् । बेरं परितः पुरुषाद्यावरणत्रयदेवान् मित्राद्यावरणत्रयदेवां श्चाऽऽवाह्मा 'अस्त्वासन' मित्यासनं दत्वा पश्चादौत्सवे बलिबेरे च तस्माद्दीपाद्दीपमिवाऽऽवाहयेत् । ध्रुवार्चाबेरमावाहनविसर्गाभ्यांविनाऽऽसनाद्येरर्चयेत् । एष विशेषोऽन्यत्सर्वं समानमिति विज्ञायते ॥ इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे शिलाबेरध्रुवार्चा बेरस्थापन विधिर्नाम षोडशः पटलः ॥१६॥ अथ सप्तदशः पटलः अथ बेरार्थं दारुसंग्रहणं वक्ष्ये-खदिराऽसनतिमिशमीचन्दन चम्पक मधूकजातिवृक्षाश्चाऽन्येस्निग्धास्साराः शुभवृक्षाश्च सस्यक्षेत्र समीपोत्पन्नाः पद्मोत्पलं कुमुदवत्तटाक समीपजाता याज्ञिकाद्रुमाः, तुलसीवृक्ष (कुशपुष्प) समीपजाताश्च वृक्षास्संग्राह्याः । पुष्पफलविस्तीर्णाः क्रिमिदष्टाः जन्तुयुता अग्निदग्धा वाताहताजीर्णाः कोटरा स्त्वचाहीना भिन्ना अनेक पक्षि निवासा वल्मीकसंकटाः सर्पवासा देवायतनस्थाश्मशानचण्डालवास समीपस्था अनुक्तस्थानस्थाश्वाऽग्राह्मा:।

वृक्षास्त्रिविधाः पुंस्त्रीनपुंसका इति । आमूलाग्रमार्जवयुतं सुवृत्तं शाखानेकयुक्तं पुंवृक्षं, स्थूलमूलं कृशाग्रं स्त्रीवृक्षं, कृशमूलं नपुंसकंवृक्षं न गृण्हीयात् । पुंवृक्षेणपुंबेरं स्त्रीवृक्षेण स्त्रीबेरं कारयेत् ।