पृष्ठम्:विमानार्चनाकल्पः.pdf/80

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

44 विमानार्चनाकल्पे महाशास्त्रे वा प्राच्यामुदीच्यां वा वारिमार्गं चतुरङ्गुलं मात्राऽङ्गुलेनैकवेदिं कारयेत्। अथवा पीठं विना शिलाभिरिष्टकाभिर्वा वेदिंकृत्वा तन्मध्ये सुदृदं संस्थापये दित केचित्। एवं धुवार्चाबेरस्थापनम् अन्यत्सर्वं युक्त्या कारयेत्। गर्भालयपदविन्यास विधानम्। अथ गर्भालयपदविन्यासविधिं वक्ष्ये - प्रागग्रैरुत्तराग्रैश्च सप्तदश सूत्रैः षत्पञ्चाशत् द्विशतभागंविभज्य तन्मध्ये षोडशभागं ब्राह्मं,तत्परितश्चतुरधिक्काशीति भागं दैविकं, तत्परितः षण्णवतिभागं मानुषं, तद्वहि: षष्टिभागं पैशाचं भवति। तन्मध्ये ब्राह्मे कौतुकपीठं, दैविक-भागंत्रिधाकृत्वा तस्यापरभागे तन्मध्ये वा स्थानकं, देवमानुषयोरन्तरे च आसनं किंचिद्दैविकमाश्रित्य मानुषांशे शयनं संस्थापयेत् । ध्रुवार्चाचेत् गर्भागारं सप्त सप्त विभागं कृत्वा तन्मध्ये चैकं पदंब्राह्मं तत्परितश्वाष्टभागं दैविकं तद्वाह्मेषोडशभागं मानुषं तद्वहिश्चतुर्विंशतिभागं पैशाचंभवति | ब्रह्मस्थाने स्थापयेत् शांतिकं दैविके पौष्टिकं देवमानुषयो मध्ये जयदम्। एवं ध्रुवार्चां संस्थायेत् ॥ देव्यादि प्रमाणम् - देवस्यबाह्लतं, स्तनांतं, कर्णांतं वा, देव्योर्मानम्, मुन्योर्वीश शैषिकयोरन्येषां परिवाराणां चतत्समं पादहीन मर्धपादं वा तत्तदालयवशाद्वा कारयेत् | ब्रह्माणं शंकरं च ध्रुवबेरसमं नवांशेनमष्टांशेनंवा कारयेत्। येन द्रव्येण देवः कृतः तेनद्रव्येण देव्यादि परिषद स्तत्तदुक्तताल क्रमेण कारयेत्। स्थानकस्य पीठोर्ध्वेचाऽऽसीनस्य सिंह्मासनोर्ध्वे तस्यऽधस्ताद्वा, शयानस्याऽनंतोर्ध्वे, पादपार्श्चे बेरमध्ये वा रत्नन्यासं कृत्वा बेर संस्थापयेदित्याह मरीचिः ॥ इति श्रीवैरवानसे मरीचिप्रोक्ते विमानार्चमनाकल्पे शिमाग्रहणबेर-प्रमाणपदविभागस्थाननिर्णयो नाम पञ्चदशः पटलः ॥१५॥