पृष्ठम्:विमानार्चनाकल्पः.pdf/78

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 विमानार्चनाकल्पे महाशाख्ने शिालानयनादि प्रकारः । पूर्वपक्षे पुण्ये कर्तुरनुकूले नक्षत्रे आचार्यो यजमानश्च शिल्पिनासार्धं साधनैर्होमसंभरैिस्सह शिलाग्रहणाय गत्व वने वनपार्श्र्वे जलपार्श्र्वे वा शिलां वीक्ष्य परितस्तृणगुल्मलतादीनि संशोध्य तदुत्तरपार्श्वे सूत्रोक्त विधिना वास्तुह्येमं हुत्वा पर्यग्निंकृत्वा पश्चगव्यै पवमानाद्यैः संप्रोक्ष्यद्विप्रस्थैस्तण्डु लैधरूं पक्त्वा गुलदधिघृतलाजैर्युक्तं शिलायाः पार्श्र्वे दक्षिणे वनराजायेति, वामे देशाधिपतय इति, परितः प्रागादीशांनान्तं सर्वेभ्यो देवेभ्यो, यक्षेभ्यो, विद्याधरेभ्यो, राक्षसेभ्यः, पिशाचेभ्यो, नागेभ्यो, गन्धर्वेभ्यः, अष्टादश गणेभ्यश्चेति, पूर्वमुदकं पुष्पंबलिमुदकं च दत्वा तत्रस्थान् शीघ्रं व्रजतेति परितः (शीघ्रं) खनित्वा शिल्पिना सार्धमानीय शुद्दोदकैरमिषिच्य आचार्य उत्तरामिमुखोभूत्वा प्राणायामं कृत्वा आत्मसूक्तं, महीसूक्तं च, जप्त्वा समाहितो देवंध्यायन्, हस्ताभ्यामं 'इदंविष्णु' रिति मंत्रेण सिलाग्रहणं कृत्वा उलिकां ताडनी मप्यादाय विष्णुगायत्रीं, चित्रं देवाना' मित्युक्त्वा मूर्ध्नि पार्श्र्वयोः पादे च किंचित् छित्वा शिल्पिनमाहूय विधिना मानयित्वा किंचिदप्यधिकं हेयशिलां छेदयित्वाप्लवगे, शकटे वा, शिलामारोप्य अप्रमादेनाऽऽलवमावेश्य कर्ममण्डपेन्यस्य बेरंमानोन्मानाद्यैर्लक्षणोपेतं स्थानकादि भेदेष्वेकमार्गेण साड्रोपांड्रावयव, मत्यर्धावयवं वा, सर्वत्राऽहीनं, सुन्दरं, चित्रं, चित्रार्धं वा कारयेत् ॥ दारवादि बेरकरणादि एवमेव दारवं कारयेत्। ध्रुवार्चाचेत्। स्थानक, मासीनं यानकं वा, सर्वांग संपूर्णं सुव्यक्तं कारयेत्। अथ ध्रुवबेरं ताम्रजं शैलंदारवं वा विधीयत। दारवान्मृण्मयंश्रेष्ठं मृण्मयात्शैलमुत्तम्सं शैलात्तास्रंमुख्यं भवति, ध्रुवाचबिरं चेत् ताम्रजं, शैलं वा कुर्यात् । बेरायामं तददर्धायामविस्तृतार्ध मुक्तमं, तद्रुणांशात् द्व्यंशं मध्यमम्, तच्चरांशाद्रुणांश मधमम् । ध्रुवबेर विधानम् तद्धामविस्तृतार्ध द्विधाकृत्वा तस्याऽपरार्धं षड्विंशतिभागं कृत्वा तत्पूर्वार्धांशेन सह एकैकं संयोजयेत् । सप्तविंशत्युत्सेधं भवति । गर्भागारस्य चतुर्भागात त्रिभागं, त्रिभागात् द्विभागं, शरांशादुणांशं, गर्भार्धं वा,