पृष्ठम्:विमानार्चनाकल्पः.pdf/77

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ठः 5 41 विंशत्यर्चकाः अशीति परिचारकाश्चोत्तमोत्तमम्, देवेशस्य प्रतिसंध्यमेकैकः पुरुषःतथाबेरं प्रति पूजार्थमर्चकाः परिचारकाश्च बहवो भवंति । आचार्यादीनां भूम्यादि दानम् नित्य नैमितिकार्थ माचार्यार्चकादीना जीवनार्थ अन्यदिव्यविभावार्थचाऽत्यन्तपुष्कलान् भूमिभोगान् आचार्यस्यहस्ते देवसन्निधौ यजमानस्सोदकं दद्यात्। सर्वमाचार्य नियोगेन कारयेत्, अाचार्यार्चकादयः क्लेशयुक्ता श्रेजनास्सर्वे सर्वदाक्लेश युक्ता भवेयु। राज्ञोराष्ट्रस्य च महद्रर्य, ग्रामयजमानयो नशश्च भवेत् । तस्मात्सर्व प्रयत्नेन आचार्यार्चकादी नां जीवनार्थ भूमिभो सुसंपन्ने कल्पयेत्। आचार्यार्चकपरिचारकादीनामभावे तत्पुत्रादीन् तदभावे तन्नियुक्ताश्व (न्वा) कारयेत्। अन्यथा महत्तरोदोषो भवति इति विज्ञायते ॥ इति श्री बैखानसे मरीचिप्रोके विमानार्चनाकल्पे नवविधपरेिवाराचार्याऽर्चक विधिनीम चतुर्दशः पटलः ||१४|| 3TeI UedSI: UICC1: अथ बेरार्थं शिलाग्रहणं वक्ष्ये शिालाभेदः गिरिजा भूमिजा वारिजा चेति शिला त्रिविधा भवति । गिरेरुपरजातोध्र्वमुखा, पाश्र्वजाता पर्वतप्रेक्षा, समुद्रजातोध्र्वमुखा, भूमि जाता ऽधोमुखा, नद्यादि जलमार्गजाता जलागमनमुख, तासां भूमिजातामुख्या, तस्मान्भह्।दक्षु अशीर्षा, , दुस्थानस्थाचाऽग्राह्या; शिलाश्चत्रिविधाः पुंत्रीनपुंसकाश्रेति । एकवर्णाघना स्निग्धाचाऽऽमूलाग्रमार्जवान्चिता घण्टानादसमा पुंशिला! स्थूलमूला क्षीणग्रा कंसाध्वनेि युता खात्रीशिलू!, स्थूलाग्रा. कृशमूला. हीनस्वरा नपुंसकशिला, पुंशिलाभिः पुंबेराणि स्त्रीशिलाभिः स्त्रीबेराणि नपुंसकशिलाभिः प्रासादतलकुड्यादीनि कारयेत् । अथ एकस्याशिलायां देवदेव्यौच कारयेदित्येके । शिलाछेदने तक्षणे धापि मंडूकोटश्यते यदि सा शिला गर्भिणीति ज्ञात्वा तां यत्नेन परिवर्जयेत् ।