पृष्ठम्:विमानार्चनाकल्पः.pdf/76

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 विमानार्चनाकल्पे महाशास्त्रे इति श्री वैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे गर्भन्यासमूर्धष्टका विधिनमि त्रयोदशः पटलः ||१३|| अथ चतुर्दश: पटलः परिवाराणां नवभेद निरूपणम् अथ परिवाराणां नवभेदविधिं वक्ष्ये - आलयांतर्गत देवा, द्वारदेवा द्धारपालाश्च, सर्वत्र समाना उच्यन्ते । विष्वकसेन गरुड श्रीभूत न्यक्ष भूतपीठानि एते पश्वपरिवारा अधमाधमम्, एतैस्सार्ध मिन्द्रादि (दिग्दे) देवा, भास्कर प्रमुखे चक्रशंखौ च एते षोडशपरिवारा अधममध्यमम्, एतैस्सहिता विवस्व न्मित्रक्षत्तारः,अभिमुखे ध्वज यूथाधिपौ च एकविंशति देवा अधमोत्तमम्, एतै स्सहिता सिद्धि श्रीहविः पालकस्कंद विध्नेश सप्तमात्रृ पुरुषज्येष्ठाभार्गव ब्रह्मचन्द्राश्र्वेते द्वात्रिंशहेवा मध्यमाधमम्, एतैस्सह तृतीयावरणे भास्कराऽग्ङारक स्कंद दुर्गा स्प्तरोहिणी मन्दसप्तमातृबुधबृहस्पतिपुरुषाश्र्चैते द्विचत्वारिंशहेवा मध्यममध्यमम्, एतैस्सह एकादशरुद्राद्वादशादित्या एतेचोत्तममध्यमम्,एतैस्सहबलिरक्षक वसुजया दश एते चोत्तमोत्तम मिति। प्र (ति) मुखे अनपायिनी द्वारे घात्रादीन् प्राकार द्वारेषु द्वारपालकान् यथोक्ने देशे सम्यगर्चयेत् । अर्चकादिभेदेन अधमादिकथनम् नवविधार्चक परिचारकान्चक्ष्ये - मन्त्रकल्पवित् शौचाचार स्ंयुक्तस्सुपुष्टांग ऋत्विगुक्तगुणोपेत एकोऽर्चको द्वौ परिचारकौ अधमाधमम् अर्च्चकौ द्वौ परिचारकाश्चत्वारश्चाऽधममध्यमम् अर्चकाख्त्रयः नवपरिचारकाश्चाधमोत्तमम्, अर्चकाश्चत्वारः षोडश परिचारकाश्चिमध्यमाधमम्, षडर्चकाः पश्चविंशतिपरिचारकाश्च मध्यमध्यमम्, अष्टार्चकाः चत्वारिंशत्परिचारकाश्व मध्यमोत्तमम्, द्वादशार्चकाः पञ्चाशत्परिचारकाश्व उत्तमाधमम्, षोडशार्चकाः चतुः षष्टि परिचारकाश्चोत्तममध्यमम्,