पृष्ठम्:विमानार्चनाकल्पः.pdf/75

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: 13 39 इष्टकोपरि पादुकात्पट्टिकान्त शिलथैवकृतं चेन्न् दोषाय भवेत्। शिलया इष्टकयादारुणा वा पादुकादि स्थूप्यंतंयत्कृतं तदेकद्रव्यकृतम्, मसूराकान्तं प्रस्तरान्तं वा शिलयैव कृत्वा शेष (शिष्ट) मिष्टकाकल्पितंयत् । तत्तद्विद्रव्यकृतम्। एतदेव शिखरं लुपाविधानेनकृत्वोपरिलोष्टछादनं यत्तत्रिद्रव्यकृतम्। शक्तश्चेत्तदेवताम्ररजत रुग्मै (कमै) राछादयेत् एतदुत्तमं भवति । सर्वेषां स्थूपें लोहभाजनमेव कारयेदित्येके । तदालयपादविस्तारद्विगुणा यामां तदर्धविस्तारं तदर्धबाहळयामेव इटकां शिलां वा कृत्वा तत्स्थानं शिखराग्रे नासिकपृष्टे नासिकाग्रांते वा ताम्रजं खादिरं बेरोक्तवृक्षजं वाऽऽहृत्य एकतल प्रासादे बहुतले वा, मूलतले वा पादविष्कंभाद्वादशाऽटसमषर्गुणं वा कोल्दैध्र्यतत्पादविष्कंभातू त्रिभागैकभाग मधंवा विस्तारं तत्पर्डर्शकांशं स्थूपकाग्रविस्तारं त्स्याऽऽयामं समधकृत्वा त्रिभागमूले चतुश्र शेषंसुवृतं शिखराकारं वा करयेत्। अथवा तदूध्र्वतलपादायाम सदृशं तत्पाद विष्कंभ ब्रैस्तारम् अग्रमेकशृंगुलमालये तुन्मध्ये सुषिरं समचतुरश्रं कृत्वा कोलादधस्तात्स शिखंयुक्तितः कारयेत् । आद्येष्ठकावदंत्येष्टकाना मधिवास होमाद्य सर्व स्थूपकील सहित कृत्वा कीले विष्णु तदाधारे महीं प्रागादिष्विष्टाकासु पुरुषाध्यामूर्क्त्तीः तद्वाह्येप्रागाध्युत्तरांतं

न्यक्षं विवस्वंतं मित्रं क्षक्तारंचाऽभ्यच्र्य शयने शाययेत् । प्रतिसरमाबध्योत्तराच्छादनंकृत्वा आहवनीयादिषु पूर्ववध्दोमं हुत्वा रात्रिशेषं व्यपोह्म प्रभाते स्नात्वा आलयमाविश्य प्रदक्षिणं कुर्यात् । यजमान आाचार्यार्दीन्नववस्रोत्तरीयाद्यैरलंकृत्य दक्षिणां दद्यात् । स्थापकाः शिलावाऽथेष्टकां वा कीलसहितं समादाय ग्राममालय वा प्रदक्षिण कृत्वा ताश्वाऽसकरं विमानं समारोष्य शिल्पिनासार्ध सूत्रं प्रसार्य शिलावाऽथेटका वा तन्मध्ये छिद्रे पूर्ववत् प्रागग्रं तच्छिद्रतन्मूलं तद्दक्षिणे छिद्रे दक्षिणे मूल पश्विमे छिद्रे (अग्रं) पश्चिमे मूलम् उत्तरे छिद्रे उत्तराग्रमेवं छिद्र पूर्ववचतुर्वेदादि मंत्रैरूध्वननं संन्यस्य सुधामालिप्य तन्मध्ये रत्नं, सुवर्णं वा यथा शाक्ति विन्यस्य सुधामालिप्य मेदिनीमंत्रेण मयूरांघ्रिंविन्यस्य तस्योर्ध्वेसुषिरे विष्णुसूक्तेन स्थूपिकीलं प्रतिष्ठापयेत् । पश्र्चाच्छिल्पिनमाहूय सुद्ददं क्रुत्वा शिखरं समाप्य तस्मिन् प्रागादि चतुर्दिक्षु न्यक्षादीनावाह्यऽभ्यर्च्य शेषांशं विधिना कारयित्वा शक्तश्चेत्ताम्रजं, राजतं, सौवर्णं वा, कृत्वा तस्याऽधस्तात्सुधावर्णानुलेपं च कारयेत् ।