पृष्ठम्:विमानार्चनाकल्पः.pdf/74

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

38 विमानार्चनाकल्पे महाशास्त्रे

वनीयाग्निकुंडं क्रुत्वा सायाह्ने देवाभिमुखे धान्यराश्युपरि प्रागग्रं वस्त्रमास्तीर्य फेलां विन्यस्य तस्मिन्मुदादिद्रव्याणि संभुत्य आचार्य श्वोत्तराभिमुखोभूत्वा गायत्र्या प्रणवाद्यायतानि द्रव्याणि संप्रोक्ष्य ‘मेदिनी' ति फेलामभिमृश्य ब्रह्मादि नवपदेषु तत्तद्देवत्यमन्त्रेण मृद्रत्नधातुबीज लोहान् क्रमेण सन्यस्य पश्चायुधान् तत्तन्मन्त्रै र्मध्यमादि चतुर्दिक्षुविन्यस्य मध्ये ब्राह्मणादि वर्णचिह्वानि चतुर्दिक्षु हेमादि लोहान् पद्मादिकन्दानि तत्तद्दिगीशमन्त्रैः पृथक् पृथक् विन्यस्य गजगरुडकूर्मरूपाणि बाह्यपदे तत्तन्मन्त्रेण विन्यस्य ऽष्टदिक्षुमंगलान् यथाक्रमेण तत्तद्विगीशमंतैस्सन्यस्य उत्तराच्छादनेन अाच्छाद्य दिक्परिच्छेदं कृत्वा रात्रौतस्याऽऽलयस्योत्तरे वास्तुहोमं हुत्वा पर्यंग्नि पश्चगव्याभयामालयं संशोध्य पुण्याहं वाचयित्वाऽऽहवनीया (ये आ) घारं हुत्वा धान्यवेद्यां पश्वस्त्राण्यास्तीर्य तन्मध्ये फेलां द्रव्यसहितां स्वस्तिसूक्तेन सन्यस्य तस्यां नागेन्द्रं तत्परितश्च इंद्रदिलोकपालांधऽऽभ्युच्र्यबखेणाबेट्योपरि पुष्पाणिविक्षिप्याऽधिवास्य अग्निंपरिस्तीर्य वैष्णवं विष्णुसूक्तं श्रीसूक्तं महीसूक्तं ब्राह्मं नागाधिदेवत्यं दिग्देवत्यं च हुत्वा पश्चायुधेभ्यो नागराजाय इद्राय अग्नये यमाय निऋतये वरुणाय वायवे सोमाय ईशानाय नारायणाय सर्वरत्नेभयः सर्व धातुभ्यः सर्व बीजेभ्यः सर्वलोहेभ्यो नदीभ्यः पाताळेभ्यो वृक्षेभ्यो नागेभ्यो दिग्गजेभ्यः स्वाहेति व्याहृत्यन्तं हुत्वा अन्तः परिषेकं कृत्वा तद्रात्रौ सुमुहूर्त्ते प्राप्ते यजमानः आचार्यादीन् बम्नोत्तरीयाभरणैरलं कृत्य दक्षिणां दद्यात्, आचार्यस्तभ्दाजनं शिरसाधारयन् वाद्यघोष समायुक्त मालयं प्रदक्षिणी कृत्य अभ्यंतर द्वारदक्षिणे स्तंभसमीपे, यजमानो ब्राह्मणश्चेत्पट्टिकोपरि क्षत्रियश्चेत्कुमुदोपरि वैक्ष्यश्वेळगत्युपरि शूद्रश्वेकत्पादुकोपरि च एव स्थानं संकल्प्य तस्मिन्मेदिनीमभ्यर्च्य आत्मसूतं जप्त्वा ‘इदंविष्णोर्वीर्यमि' ति ध्यात्वा मेदिनीदेवी, विष्णुर्योर्निं ध्रुवसूतं च, जप्त्वा तत्रैवगर्भं संस्थापयेत् । पश्वादग्निमासाद्य स्विटाकारं पूर्णाहुती च यजेत् । अप्रिंविसृज्य शिल्पिनमाहूय दृढं कृत्वा तस्योपरिविधिना विमानं कारयेत्।

अथ समासेष्टकाशिला विन्यासविधिं वक्ष्ये - पूर्वपक्षे कर्तुरनुकूलर्क्षे शुभेमुहूर्ते समाप्तिकां कुर्यात्। विमान मेकद्रव्यकृतं (चेत्) श्रेष्ट 'म्' द्विद्भव्यकृतं मध्यमम्, विद्रव्यकृत मधमम्। एकद्रव्यकृत विमाने तद्द्रव्येण मूर्धेष्टका विन्यसेदन्ययोर्यद्रद्व्यकृत मुपरिस्थलं तेनैवमूर्धविन्यासं कारयेत्॥