पृष्ठम्:विमानार्चनाकल्पः.pdf/72

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

36 विमानार्चनाकल्पे महाशास्त्रे धात्रीं च अन्तराले सुधासुंदरी सुव (स्वा) हास्वधामायासंहलादि नीराकासिनीवालीश्व पचनालये हवीरक्षकं, पुष्पमण्डपे पुष्परक्षकं, वारिसंचयस्थानपाश्च्व पचनालये हवीरक्षकं, पुष्पमडपे पुष्परक्ष्कं, वारिसंचयस्थानपार्श्र्वेपुरुषं, प्लोतवस्त्रोत्तरीयादि द्रव्यसंचयस्थानपार्स्वे त्वत्वाष्टारं, शय्यास्थाने कौमोदकीं, हाविर्द्रव्यादि संचयस्थाने बलिरक्षकमर्चयेत् ।चतुर्थावरणे पूर्वद्वारोत्तरे गविष्ठं, दक्षिणे प्रुथिवीं पश्चमे दक्षिणे अग्निम्, उत्तरे वायुंच, आग्नेयादिषु कोणेषु ऋग्यजुः सामाथर्वणश्च, अन्तराले शिवं विष्णु तक्षकें शुभ भूतनायक पवित्रं पावनं क्षितिजं च। पत्रमावरणे पूर्वद्वारोत्तरे दक्षिणे चक्रंहीमनुमर्ति; दक्षिणे ब्रह्माण्याद्यास्सममातृः, पश्चिमे जयाद्यप्सरसश्व, उत्तरे कुण्ठिन्यादि सप्तरोहिणीश्व, आग्नेयादिषु कोणेषु वत्सरादीन् प्राणा (दीन्म) रुत:, शतरुद्वानन्तराले वा ईशानेंद्रयोरन्त (र) राले अजैकपद: एकादशरूद्रादीन्, इंद्राग्न्योरन्त रालेधात्रादि द्वादशादित्यान्, यमाग्नेययोरंतरे गन्धर्वान्, यमनीलयोर्मद्ये मुनीन्, नीलवरुणयोर्मध्ये अमृतजान्, वरुणोदयानोर्मध्ये, अश्विनौ, सोमोदानयोर्मध्ये विद्याधरंश्च, षष्टावरणे प्राग्द्वारादुत्तरे तुंबुरुं, तद्दक्षिणेनारदं, दक्षिणे ऋतून्, पश्चिमे प्रजापतिम, उत्तरे मुद्गलम्, आग्नेय्यां हलेश, नैऋत्ययां यक्षं वायव्यां जांबवन्तं, ऐशान्ग्घां सुरमम्, अन्तराले प्राच्यामुक्तरे किन्नरमिथुनं, तद्वक्षिणे प्रहादं, दक्षिणे कामंविपां च, पश्चिमे व्याजि (जु) नीं कामिनीं च उतरे प्रभांसुंदरीं च, सममावरणे पूर्वद्वारोत्तरे ब्रह्माण, तद्दक्षिणे अर्थम्ण, दक्षिणे दंडभृतम्, उत्तरे धनदम्, अग्नेयादिषु कोणेषु सवितृसावित्रौ, इंद्रं (इंद्रें) द्रानुजौ, रुद्ररुद्रानुजौ, अपाप्वत्सौचान्तराले प्रागादि चतुर्दिक्षु ईशादि पढ्देवान् क्रमेण कारयेत्। अत्रानुक्तान् सर्वान् बाहो महत्ग्रीठं कृत्वा सर्वे देव इति संकल्प्याऽर्चयेत् । एतेषामनुक्तं सर्वं भृगूक्त विधिना कारयेत् । यूथेशपीठं यथोक्तेदेशे गर्भागार विस्तृताद्वारोलुङ्गाद्वा, पंचभागत्रिभूगैकभागमर्धं वा हस्तमानेन त्रिहस्तं द्विहस्तम् एक हस्तंवा पीठस्यामविस्तारं तत्समोत्सेधं, तन्मध्येपूर्व वत्प्रथमेष्टकां शिलां वा विन्यस्य पीठोलुङ्गषोडशांशं कृत्वा एकांशमुपानं, चतुरंशाजगती त्र्यंशंकुमुद मर्धाशंकंपं, चतुरशकठ, अर्धाशामहपट्टिका तदूर्ध्वकंपंअर्धाशं (चतुर्दिद्मध्यमहद्भ) शंखनादसमतद्भूताकृारयुक्तं वियुक्तं वा कृत्वा समामेटकांविन्यस्य तत्तुरीयांश मूध्र्वपद्य, तत्पद्य पंचधाकृत्वा एकांशंपद्माऽऽधारवृत्तकंपं तस्योर्ध्वे द्व्यंश मधोदलं, शेषांशमूध्र्वदलम्, ऊर्ध्वाधः षोडशदलैः युक्तं कुर्यात् । पद्मतुंगस्यपादांशेनाऽर्धाशेन वा