पृष्ठम्:विमानार्चनाकल्पः.pdf/71

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: 12 35

परिकल्पयेत् । अथवा सर्वत्र प्रथमावरणाद्यंकणस्याऽग्रायामं चतुर्धा कृत्वा विमानपाश्व्व्रादि द्वितीयांशे गरुडं, तुतीयांशे बलिपीठन्च कल्पयेदिति केचित् । परिवाराणामालयं, पन्चनालयं, पुष्पसन्चय स्थानम् उदकपानीय स्थानं; नृतमंडपश्च, मूलधामप्रेक्ष, स्नपनमण्डप मास्थनमण्डप प्राकारं, गोपुरं च, बहिर्मुख, विमानगर्भगृहमभ्यन्तरमुखं ज्ञात्वैवमारभेत॥ प्राग्द्बारे देवतागारे प्रथमावरणे द्वितीये वैन्ट्रैशानयोरंतरे स्नानोदकपानीयपुष्पसंचयस्थानं, प्लोतवस्रोत्तरीय गन्धतांबूलाद्यर्चनाद्रव्यसंचयस्थानं च, ऐन्द्रग्न्योर्मध्ये शय्यादेशम्, उत्तरद्वारं चेत् सोमेशानयो मध्ये स्नानोदकपानीयपुष्पसंचयस्थानं, सोमेशानयोमद्ये शय्यास्थानं च, सर्वत्रापि महानसमाग्रेयमेव कारयेत् ॥

परिषद्देवानां स्थानं वक्ष्ये - गर्भगेहे ध्रुवबेरस्य पादयोर्मद्ये विष्णुः तत्प्रागानान्तं घुरुधकपिलसत्ययग्नाच्युतात्मनारायणानिरुद्वपुन्यष्व, द्वितीयावरणे वाराह सुभद्र नारसिंह्येशितात्मवामनसर्वोद्वहत्रिविक्रम सर्वविद्येश्ह्वराश्च, तृतीयावरणे इंद्रादय:, दक्षिणे भित्तिपाश्हर्वे पितामहपुण्यौ, वामे गंगाधरपझापितरौ, द्वारेषु धातृबिधातृभुवंगपतंगपतंगपतिर - वरुणाश्च, न्यक्षादि विमानपालाः शिखाग्रे स्थूप्यधस्तात् प्रागादि चतुर्दिक्षु बहिर्मुखासीनाश्चा अधस्तादधिष्टानवर्गं, परितः प्रागादि न्यक्षविवस्वंत-न्मित्रक्षत्तारः, पीठेषु समर्चनीयाः, मनिकसंध्येऽभ्यन्तरद्वारे मुखमण्डपद्वारे विखनसतापसौ, प्रथमावरणादि सप्तप्राकार द्वारेषु किस्किन्धबहुमर्दतीर्थौ, विग्नेशनागेशौ, शंखपद्यौ, तृहिण्बलिंदौ, नंदकशार्ङौ, चक्रचूलि शंखचूलिनौ, चंडप्रचंडौ चेत्येतानष्टादश द्वारपालानचयेत् । सोमेशानयोरन्तरे विष्वकूसेनं, प्रथमावरणाऽऽयंकणे 'चतुर्भाग् द्विभाग श्रीभूतगरुडचक्रध्वजं शंख यूथाधिपाक्षहांतानेताननपायिनश्च ततत्सूत्रे संयोज्यैवाऽर्चयेदिति केचित् । प्रथमावरणे, द्वितीयेवा, प्रागादीशानान्तं इन्द्रादीन् प्राग्द्वारादि द्वारदक्षिणपार्च्वेषु च, प्रग्द्वारावुत्तरे भास्करमिंद्रातूदक्षिणप्यंतराले, चंद्रांगारक बुध बृहस्पतिकाव्यमून्दराहुके-तूनेतान् गृहांश्च, तृतीयावरणे गंगा यमुनानूर्मदासिंधू:, प्रगुदिचतुर्दक्षु तप्तद्वारदक्षिणपाश्र्वे पूर्वद्वारोत्तरे दुर्गाआग्नेयादिषुकोणेषु, सिद्धिं श्रियं ज्येष्ठां