पृष्ठम्:विमानार्चनाकल्पः.pdf/66

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3O विमानार्चनाकल्पे महाशास्त्रे एवं षट्तलादि द्वादशतलांतं तारे चतुरंशं, तुंगे कालांशं संयोज्य उत्सेध भेदार्थं द् व्यंशाधिक विभक्तेर्विनैव तलंप्रति युक्त्या संयोज्यकुर्यात्। सर्वेषां तलानामधस्तलं घनमेव कृत्वा षट्तलस्य द्वितीयतले प्राच्यां मध्ये पंचवीरान्, दक्षिणे राघवम् उत्तरे कृष्णं च, दक्षिणे मध्ये नृसिंह्मं, तत्पूर्वे वामनं, पश्चिमे त्रिविक्रमं, पश्चिमे मध्ये वाराहं, दक्षिणे परशुरामम्, उत्तरे बलभद्रं च उत्तरमध्ये कल्किं (कि)णं पश्चिमे कूर्मरूपं पूर्वे मत्स्यात्मकं च, गर्भगृहे संस्थापयेत् । तदुपरि पंचतलोक्त्तवत् ॥ सप्ततलस्यद्वितीयतले देवस्य विजयक्रीडारूपाणि प्रगादि दिक्षु, विदिक्षु, अंतरालेषु, पूर्ववद्गर्भगृहं कृत्वा स्थापयेत् ॥ अष्टतलस्य द्वितीयतले प्राच्यां दक्षिणाध्युत्तरान्तं सनकं सुभद्रं मित्रं सनातनं च प्राङ्मुखं, दक्षिणे पश्चिमादि प्रागन्तं सुखावहं हयात्मकं मित्रं सर्वाश्च दक्षिणा मुखान्, पश्चिमे दक्षिणाध्युत्तरान्तं सनंदनं रामदेवं शिवं सनत्कुमारं च पश्चिमाभिमुखान्, उत्तरे पश्चिमादि प्रागन्तं संवहं पुण्यं विश्वं सुवहं चोत्तराभिमुखान् गर्भगृहं कृत्वा स्थापयेत् अन्यत्सर्वं पूर्ववत् ॥ नवतलस्य द्वितीयतले प्रागदि दिक्पालान् आदित्यांश्चब वसून् रूद्रान् मरूतो विश्वान् सप्तऋषीन् सप्तरोहिणो:मातृगणानपि गर्भग्रुहं कृत्वा स्थापयेदन्यत्सर्वं पूर्ववत् | सर्व स्मिन् यथेष्टस्थाने गर्भगृहं कृत्वा सर्वान् देवान् कल्पयेत् | दशतलाध्युक्त्ततलान्तं तलंप्रति यथाक्रमेण पीताभं महाविष्णुं रुक्माभं सदाविष्णुं, स्फटिकाभं नारायणं, चतुर्भुजं देवीभूषणायुधैस्सह स्थानकासनशयनमार्गेष्वेतोष्विष्टमार्गेण संस्थाप येत् | अथवा द्वितलादि द्वादश तलान्तं क्रमेण विरत्तारं त्रिभागादि त्रयोदश भागान्तं विभज्य एकांशं गर्भगृहं शेषांशॉ गृहपिंड्यलिन्द्रभागादीन् कूटशालादीश्व व्यासोपान संयुक्तं वेणुरंध्रवत्, गर्भोपरि गर्भगृहं सुखमंडपं च परिकल्प्य आदितलं धनमेव कृत्वा उपरितलत्रये महाविष्णुं, सदाविष्णुं नारायणम् अन्येष्वधस्तात्स्थान-कासनशयनभेदेन विष्णुमूर्तिं पूर्ववत्संस्थापयेत् | अष्टतलादूर्ध्वं मूर्तिंस्थापनं नाचरेदित्येके | सर्वेषु विमानेषु विस्तारात्रिभागॉ कविशालमेकदंडाध्य-र्कदंडान्तं द्वादशभेदैर्निर्गम युतं मध्यभद्रं कुर्यात् | महद्विमानं चेत् द्वयोः पाश्र्वयोश्च कूटशालादीन् कल्पयेदित्याह मरीचिः ॥

इति श्रीवैखानसे मरीचिप्रोक्त्ते विमानार्चनाकल्पे द्वितलादिविधानं

नाम दशमः पटलः ॥१० ।।