28 विमानार्चनाकल्पे महाशास्त्रे सात्रपादं द्विदंडं समसूत्रे अन्यस्मिन् कूटात् बहिस्तथैवकोष्ठ निर्गमं कारयेत् । अलिंद्रवालुकाभिरापूर्य घनं सावकाशं संछादितंवा परिकल्प्य ऊर्ध्वे अलिन्द्रं त्यक्त्वा अभ्यन्तरमित्तावुपरिभूमिं कारयेत् ।
उत्सेधमेकोनविंशत्यंशं कृत्वा अधिष्टानं द्व्यंशं, चतुरंशपादं,
पादोनद्व्यंशंप्र (स्त) स्तारं, त्र्यर्धांशंपादं, सार्धांशंमञ्चम् अर्धांशावेदिका एकांशंकण्ठं (र्णं सपादाम्न्यशं शिखरं, पादोनद्व्यंशा स्थूपिकेत्येवं शान्तिकम् । पौष्टिव्ष्टिकाध्युत्सेधानां पूर्वोक्तांशेषु पञ्चांशं संयोज्य पादे शिरशिचैकैकांस्थूपिं विनाऽन्येष्वर्धांशं संयोज्य कुर्यात् । एवं सर्वमूह्यैव कुर्यात् ॥
उपरितलपादोत्सेधमष्टधाविभज्य एकांशं वेदिकोदयं द्व्यर्धांशं
कण्ठं (र्णं) त्र्यंशंशिखरम्, सार्धांशा स्थूपिकेति ॥
अन्ताप्रस्तारं चैकान्तर दशभागं विभज्य एकांशं वेदिकोदयं,
द्व्यर्धांशंकण्ठं, (र्ण्ं) त्र्यंशं शिखरं, सार्धांशा स्थूपिकेति ॥
अन्तरप्रस्तरप्रस्तारं चेदेकादशभागं विभज्य एकांशं वेदिकोत्सेधं,
त्र्यंशंपादं, सार्धांशंमंचम् अर्धांशा वेदिः, सपादांशकंठ (र्णं) पदान- त्र्यशंशिखरम्, एकांशा स्थूपिकेत्येव सर्वत्र कूटकोष्टादीनि कारयेत् ॥
प्रवेश निर्गमदण्डेन यथा शोभं यथाजालंनयेत् मुखमण्डपं दक्षिण-
वामयोरूधिरोहणार्थं सोपानं च युक्त्या कारयेत् ॥
तृतीयतसल्य अथ त्रितलविधिं वक्ष्ये - व्यासायामं त्रयोदशभागं कृत्वा त्र्यंशंग-
र्भगृहं, परितो गृहपिंडथलिंद्रहारास्तद्वहिश्वालींद्रहारे संकल्प्य अभ्यन्तरा- लींद्रवालुकाभिरापूर्य, घनमेव बाह्यालींद्रं सावकाशं संछादितं वा कारयेत् । बाह्यभित्तेः परितः कूटशालादीनि पूर्ववत्कृत्वा अलिंद्रं त्यक्त्वा तदभ्यन्तर- भित्तौ मध्ये तलं सालिंद्रं संछादितं तस्मिंश्च कूटशालादीनि पूर्ववत्कुर्यात् । अलींद्रं त्यक्त्वा गृहपिंडदुपरिभूमिं कारयेत् । मुखमण्टपं च कुर्यात् सोपानं युक्त्या चकल्पयति ॥
उत्सेधं चतुर्विंशतिभागं कृत्वा अधिष्ठानं द्व्यंशं, पादं चतुरंशं,
प्रस्तरं पादोनद्व्यंशं, पादं पादोनचतुरंशं, सार्धांशंमंचं, पादंञ्यर्धांशं, सपादांशं प्रस्तरम् अर्धांशावेदिः, सार्धांशंकंठं (र्णं); त्र्यंशंशिखरम्, (स)