पृष्ठम्:विमानार्चनाकल्पः.pdf/62

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

26 विमानार्चनाकल्पे महाशास्त्रे वा शिखरस्यौष्टविपुलं हंसवाजनषोडशांशैौकहीनं मध्यविपुलं, हंसवाजन सदृशमुदरविपुलं, तथैवेति केचित् । अथवा वेदिविस्तारसहशभोष्ठविपुलं, तदष्टांशोकहीनं मध्यविपुलं, तच्चतुर्विंशतिभागैकहीन मुदरविपुलंस्यात् तत्पञ्चभागा (त्) त्र्यंशं बलिकस्याधारपहिका, तत्पञ्चांशाघुगांशमूर्ध्व- पाट्टिका, तस्मात्तदैवपद्मतारं, तच्चतुर्भागैकं कंठिकातारं, शिखरोत्सेधार्धमुदरं, तस्मात् कर्णि (ण्ठि) कां तं क्रमात् संक्षिप्य (त्पं) त्र्यंङ्गुलं चतुरङ्गुलं वा बलिकमंडल विस्तारं, तदर्धमुत्सेधं अर्धदण्डंत्रिपाददंडं वा पद्मतुंगम् अर्धदण्डं कंठि कोत्सेधम् अथवा पद्मादूर्ध्वं स्थूप्या संयोजयेत् इति केचित्। शिखरोत्सेधमष्ट भागं कृत्वा तच्चतुष्पंचषडंशावसाने मूर्धेष्टकां स्थापयेत्, नासिकाग्रे नासिकंठे (कर्णे) वा कारयेदिति केचित् ॥

              नासिकाविधानम्
    नासिकाविधिं वक्ष्ये - शिखरव्यासात् त्रिचतुः पंचभागैकं नासिका

विस्तारं, तत्समं त्रिपादं त्रिपादाद्विभागं वा यामं, ग्रीवानासिक (कायाम) निर्गमदंडं सार्धदंडं द्विदंडं वा, गाढप्रवेशविस्तारस्य त्रिचतुष्पंचभागैकहीनं ग्रीवोपरि नासिकोत्सेधं तत् त्रिभागैकहीनं दंडं, हीनदंडवशयुतं गाढशेषं नानाविचित्त्रित वक्रपट्टियुतं तदर्धं त्रिपादं वा शिखरोच्चं तत्त्रिभागैकं कंठद्व्यंशेन सिंहवन्मुखं कुर्यात् ॥

               स्थूपिलक्षणम्
    अथ स्थूपिका लक्षणं पद्मस्यत्रिभागैकं कुंभतारं, त्रिभागैकं नालं,

तत् त्रिगुण पालितत्त्रिभगैकं मुकुलं स्यात् अथवा द्वाविंशतिभागं कृत्वा चतुरंशं-पद्मम्, एकांशंकण्ठि (र्णि) कोत्सेधम्, पण्चांशं कुम्भोतुङ्गम्, सत्पांशंनालम्, सार्धांशापाली, ञ्चर्धांसशंमुकुलं स्यात् ।

     एवं स्वर्णेन रजतेन ताम्रेण वा कृत्वा संयोजयेत् अशक्तश्चेत् सुधया

कृत्वा अग्रेचायसा सूचिं संयोजयेत् । एतेषां विमान निर्देशांगुलिना पादांगुलमर्धांगुलं त्रिपादांगुलमेकांगुलमर्धाधिकांगुलं द्व्यंगुलं त्र्यंगुलं वा दंडेनैकं त्रिपादंवांगं प्रतिहीनाधिक्यं न दोषायभवति, विस्तारोत्सेधाया महस्तेषु पादमर्धं त्रिपादं हस्तं वा वृद्धेिंहानिं यथोचितमाहरेत् ॥

                 आयादि परीक्षा
     अथायादि परीक्षणम् (क्षा)-उत्सेधहस्ते अष्टगुणिते भानुत्रिघनैरपहृते