पृष्ठम्:विमानार्चनाकल्पः.pdf/6

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 श्रीश्रीनिवासाय नमः
श्रीमदिखनसमहागुरवे नमः प्रस्तावना। कटिसुघटितहस्तं कालमेघाभिरामं
कमलमदहराक्षं पद्मया दीप्यमानम् । प्रणतमुनिजनॅस्तं प्राप्यमप्राप्यमानं
शरणमुपगतोऽहं प्राञ्जलिवेङ्कटेशम् । नारायण: पिता यस्य माता चापि हरिप्रिया। भृग्वादिमुनयः शिष्याः तस्मै विखनसे नमः।। "कलौ वेङ्कटनायकः" इति भगवद्वेदव्यासकृत-पुराणवचनानुसारेण शेषमहीधरशिखरे विराजमानः सप्तगिरिराजः इति सुप्रसिद्ध भगवान् श्रीवेङ्कटेशः भक्तानां मनसि प्रत्यक्षमिव विलसति । तत्र भगवदर्चनं वेदोक्तप्रकारेण श्रीवैखानसदिव्य-भगवच्छास्त्रीया श्रीवैखानसीयवैदिकै: क्रियते। श्रीविखनसशिष्यैः भृग्वत्रिमरीचिकाश्यपैः चतुर्लक्षप्रमाणेन श्रीशास्त्रमनाधेयमधेयमर्चाशास्त्रं प्रपञ्चितम्। तत्र मरीचिना कृतं विमानार्चनाकल्पमिति सुप्रसिद्ध। अस्मिन् ग्रन्थे शताधिकपटलानि सन्ति। अत्र भगवान् मरीचिः कर्षणादिप्रतिष्ठान्तविषयं सम्यक् व्याख्यातवानू: विमानादीनिर्णयलक्षणं ध्रुवकॉतुकस्नपनबलिबेराणां लक्षणं,नित्यार्चनं, विशेषपूजाविधानं, स्नपनमित्यादीन्यथाचारमुद्घाटितवान्। ग्रन्थान्ते परमपुरुषार्थस्य मोक्षस्थावाप्तिमार्गं श्रीवैखानसशास्त्रग्रन्थगणनाविधिं च रचयामास अतोऽयं ग्रन्थः परमप्रामाणिक: वैखानसपरम्परायाम्। अस्य ग्रन्थस्य प्रकाशने कृताधिकारेभ्यः श्रीतरुिमल तिरुपति देवस्थान कार्यनिर्वाहकेभ्यः एम्. श्री क्षीररामलिङ्गेश्वर विनायंक, I.A.S., महोदयेभ्यः, श्रीतिरुमलतिरुपतिदेवस्थानपालकमण्डलिसदस्येभ्यः सादरं साभिमानं च नमांसि।