पृष्ठम्:विमानार्चनाकल्पः.pdf/59

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटलः 9 23

तोरणान्तर गाढप्रवेशानं दण्डं,त्रिपाद मर्ध्ं, पादं वा शेषं झषोत्सेधमुत्तरान्तं पञ्च-वत्कैर्युक्त्तं पार्श्वयोर्मकरस्यमध्येपूरितं गाढयुक्तं नानालतापत्रजाति विचित्रितं सर्वालंकारैर्यथाशोभं युक्त्या कारयेत् । विमानस्याधिष्टाना दुपर्युत्तरान्तं पादतूङगं तत्ररसमुनिवसु नव दशभागं कृत्वा तदेकांशवेदि- कोत्सेधं तत्तुंगं चतुर्धा कृत्वा अर्धांशंकंपं, द्व्यंशंकठं कर्णम् अर्धांशंकंपं पद्ममर्धांशं, कंपमेवं, एव प्रत्यंगेषु योजयेत् ।।

   अथवा रसांशं कृत्वा,एकांशंकंपं,द्व्यंशं कंठं,(कर्ण्)शेषमुपरि बंधं स्चात् पट्टिकांशेषु तुंगार्धंगलं,शेषं त्रिधा कृत्वा उपरिबंधं पूर्ववत् कारयेत्,अथवा चतुर्धांकृत्वा एकांशेन गलादधस्तात् कंपंकारयेदिति

केचित् । पादोत्सेधं सप्ताष्ट् नवदशभागं कृत्वा एकांशंपाद विपुलं,अथवा अधिष्ठानोच्चं त्रिचतुष्पं च भागं कृत्वा एकांशं विमाननिर्देशहस्तां गुलिभिः (र्वा)पादविष्कंभं स्यात्,चतुष्पञ्चषडंशं कृत्वा, एकांशहीनं भित्तियाद विपुलं तत्र रसमुनिवसुनं द(या) धा विभज्य एकांशोनमग्न विस्तारं तद्दण्डसंग्नं तेन सर्वांग प्रमाण निर्णयकारणं स्यात् । पादाश्चतुरश्वा अष्टाश्रा षोडशाश्रा वृत्ता इति मिश्रममिश्वं वा कारयेत् । समयुग्मंश्रेष्ठं विषमयुग्मं निषिद्धम् एकत्रिपञ्च सप्तनंद भक्तिवशेन संयोजयति । पादमूले अर्धदण्डेनपद्मं तदुपरि (कर्णे) कंठे (न) चतुरश्वं शेषमष्टाश्वं, षोडशाश्वां, वृत्तं वा, भित्तिपादं । पादात् पादान्तरं भित्तिप्रवेशं पाददण्डं स्यात् । दारुशिलास्तंभेषु मूलेऽर्धदण्डेन पद्मं, तदुपरिकंठे (कर्णे)न चतुरश्वं शेषमष्टाश्वं षोडशाश्वं वृत्तंवा भित्तिपादं,पादात्पादान्तरं भित्तिप्रवेशं पाददण्डं स्यात्। दारुशिलास्तंभेषु मूलमध्याग्रेषु चतुरश्वं,अष्टाश्वं, षोडशाश्व्ं, वृत्तं वा, सर्वत्रसर्वैस्समानं नयेत् । पद्मोपरि सिंहेभव्यालभूतनागादि कल्पयेदिति केचित्।

 पादाग्रे बोधिकावीरकांडफलकानामेकैकदण्डमुत्सेधं त्रिपाददण्डं

वा, फलकायाः पादोनं कुम्भोच्चं, तत्समंबोधिकोच्चं वेति केचित्। पादाग्रे बोधिकावीरकांडफलकानामेकॅकदण्डमुत्सोधं त्रिपाददण्डं वा, फलकायाः पादोनं; कुम्भोच्चं, तत्समंबोधिकोच्चं वेति केचित् । फलकोत्सेधार्ध ताटितुंग, धृंगुत्तुगं, तदर्धं, पाददण्डं वा। ताट्यधस्तात् एकदण्डेन मालास्धानं बोरकाण्डानां विपुलं पादविपुलमेव पादस्यक (र्णे) ण्ठेन पादाक्रमेण ताट्यूर्ध्वभागं विस्तारं तत्कर्णेन कुंभविस्तारं, तत्कण्ठेन फलकाविस्तारं तत्सम, पादाधिकं वा,वोधिकाविस्तारं नानाचित्रितरंगादीनि कारयेत् । फलकोत्सेधं त्रिचतुर्भागं कृत्वा,