पृष्ठम्:विमानार्चनाकल्पः.pdf/58

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

22 बिभानार्चनाकल्पे महाशस्त्रे

               सार्वकामिकस्यलक्षणम्
 द्वादशांशं कृत्वा सपादांशमधिष्ठान द्विगुणंस्तभायामं, सपादांशं

प्रस्तरं, सपादांशंकंठं, पादं (वा) तदुपरिप्रस्तरम् एकांशम्, एकांशकंठं, पादोनचंशं शिखरम् एकांशं स्थूपिकोदयं स्यात्, अद्भुतोत्सेधमप्येवं योजये दिति केचित् ।

  अथवा शान्तिक पौष्टिक जयदानां उत्सेधं क्रमेण सप्तषट्पञ्चभागं

कृत्वा, तत्तदेकांशं हित्वा, समारोपयेत् इत्येके ।

          गर्भगृहलक्षणम्

विमानविस्तारं त्रिचतुः पञ्चसप्त नबैकादशभागं कृत्वा यथाक्रमेण एकद्वित्रिचतुः पन्चषडंशं गर्भगृहविस्तारं स्यात,विमानविस्तार सभं त्रिपादमधं वा मुखमंटपं तद्व्यन्तरं त्रयोदशभागं कृत्वा तदेकां (कैकां) शाधिके (ना) यामं सप्तविंशति भेदं स्यात,त्रित्रिसंख्याभिश्वोत्तम मध्यमाधमभेदैः नवधाभवति उत्तमानां विपुलं विमानविस्तारसमं सान्तरालं तस्यवेशनं द्विदण्डं दण्डार्ध पादं वा तदायामं, हस्तेन पदमर्ध्ं त्रिपादमेक हस्तादि सपाद पञ्च हस्तान्तं सभित्तिकं दूरं जालकं वा कुर्यात् । मध्येनिचानामन्तरालं विनैकदण्डान्तं पाददण्ड विवृध्द्या नवभेदैः प्रवेशं कार येत्, अन्येषां सर्वेषामन्तरा विना एतैः निर्गमंकारयेत् ।

         मुखपंटपलक्षणम्

अथवा मुखमण्टपं कृत्वा तत्प्रमुखे तदायामेन पादाधिकमर्धाधिकं त्रिपादाधिकं द्विगुणं वा विस्तारं,विमानात् पादार्ध त्रिपादाधिकं विस्तारायाम युत मर्धमण्डपं कुर्यात् । एतन्मध्ये भद्रतोरणाचैर्युक्त मयुक्तं वा त्रिवर्गाढ्यं कुर्यात् ।

  एतद्विमानस्य प्रमुखंविना पार्श्वेत्रय (ये)मध्यभद्रविमान विपुला

त्रिभागैकं, चतुर्भागं, पंचभागं, त्रिभागं वा; तन्निर्गमदण्डमध्यर्ध, द्विदण्डंवा, (मध्यं द्विदण्डमध्यर्धद्विदण्ड त्रिदंडं वा) पादं तस्यावसाने कुर्यात् । तोरणानामुत्सेधं स्थलादुपरि उत्तराधस्तात् द्विचतुर्भागात् त्रिभागं त्रिभागात् द्विभागंवा तोरणपादोत्सेध मधं त्रिभागैकम्, अथवा दंडेन त्रिचतुष्पंचदण्डविस्तारं तस्य पादबाह्यं तत्पादवशेन तदङ्कानिमानयेत् ।