पृष्ठम्:विमानार्चनाकल्पः.pdf/57

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटलः 9 21 निर्गमं शेषम् जगतीविस्तारं तत्समंकुमुदं तत्समं तद्वाह्यात् कंठप्रवेशं सर्वेषां पट्टिकां बुजकंपादीनां तत्तदुत्सेध समनिर्गमं, वेत्राणामुत्सेधं त्रिचतुः पंचषडंशंकृत्वा एकांशं निर्गमम्, एवं युक्त्याकारयेत् ।

 इति श्री वैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अधिष्टानभेदनाम

अष्टमःपटलः ॥८॥

         अथ नवम:पटल:
       एकतलविमाने शांतिकलक्षणम्

अथैकभूमिं वक्ष्ये-अधिष्टानपाद प्रस्तणीवा शिखरस्थूपिकाश्वेति षड्वर्गयुक् एकभूमिः, अथवा चतुर्वर्गयुतास्यात शांतिकोत्सेधं षडंशं कृत्वा, एकांशमधिष्टानं, द्व्यंशंपादतुंगं, द्व्यंशं (खुरं) शिखरम्एकांशं स्थूपिकोदयमेवं चतुर्वर्गयुतम्, अथवा शिखरक्रियां र्लुपाविघानेन कारयेत्। शांतिकोत्सेधमष्टभागं ,कृत्वैकांश मधिष्ठानं (पादं वा,तदुपरि प्रस्तरमेकांशम्, पादोनत्र्यंशं शिखरम्, एकाश स्थूपिकोदयं स्था) तद्विगुणं स्तंभायामं, तदुपरि प्रस्तरमेकांशं, कंठमेकांशं, द्व्यंशं शिखरम् एकांशं स्थूपिकोदयंस्यात् ।।

          पौष्टिकलक्षणम्

पौष्टिकोंर्ध्व नवभागं (नवधा) कृत्वा तदेकांश मधिष्ठानं, पादा- र्धाधिकं द्व्यंशं पादायामं,प्रस्तरं पादार्धेनांशं, सपादांशंकण्ठम् पादो- नंत्र्यशम् शिखरम्, एकांसा स्थूपिका स्यात् ।

         जयदस्यलक्षणम्

जयदोत्सेधं दशांशं कृत्वा, एकांश मधिष्ठानं, द्व्यर्धांशं पादतुगम् एकांशंप्रस्तरं, सार्धमेकांशं कण्ठं, त्र्यंशंशिखरम् एकांशंस्थूपितृंगं स्यात् ।

         अद्भुतस्यलक्षणम्

अद्भुतोत्सेध मेकादशांशं कृत्वा सपदांशमधिष्ठामं द्विगुणं स्तभायाभ, तदुपरि प्रस्तरमंकाश, सार्धांशंकण्ठम्, त्र्यचाजंशिरक गदाशं स्थूपिकोदयंस्यात् । सार्वकामिकोत्सेधम् ।