पृष्ठम्:विमानार्चनाकल्पः.pdf/56

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

20 विमानार्चनाकल्पे महाशास्त्रे

त्रिवर्गं वेति केचित् । एकांशंपद्मम्, एकांशंकंपम्, द्व्यंशंकण्ठम्, एकां- शंकंपम्, एकांशंपद्मम् द्व्यर्धांशा महापट्टिका, एकांशंपद्मम्, एकांशं कंपम्, एतत्पुष्पबन्धं स्यात्।

 उन्सेधमेकविशंतिभागं कृत्वा - एकांशापादुका, एकांशंपद्मम्,

एकांशंकण्ठम्, एकांशंदलम्, त्र्यंशंवृत्तकुमुदम्, एकांशंपद्यम् एकांशंकंपम्, द्व्यंशंकण्ठम्, एकांशंकंपम्, एकांशंपद्मम्, द्व्यर्धांशा महापट्टिका, एकांशंपद्मम्, एकांशोर्ध्वपट्टिकाचेत्येतच्छीप्रियाम्बुजम् ।।

  उत्सेधमष्टादशांशं कृत्वा एकांशंखरम्, एकांशंपद्मं षडंशाजगती

पंचांशंवृत्तकुमुदम् एकांशमालिंगम्, एकांश मन्तरितं द्व्यंशंप्रतिमुखम् एकांशंवाजनम्, एतत् प्रतिबन्धं स्यात् ।

  उत्सेधमेकोनविंशतिभागं कृत्वा, एकांशंपादुकं सप्तांशाजगती

षडंशंवृत्तकुमुदम् एकांशमालिंगम्, एकांशमन्तरितं द्व्यंशं प्रतिमुखम् एकांशंबाजनं नागवक्त्रसमं प्रत्यवसानम् एतत् प्रतिक्रमं स्यात्।

   उत्सेधं सप्तविंशतिभागं कृत्वा द्व्यंशंपादुकं षडंशंषद्यम्, एकां-

शंकंठम्, एकांशंदलं त्र्यंशंवृत्तकुमुदं, त्रिवर्गं वेति केचित् । एकांशंदलम्, एकांशंकंपम् द्व्यंशंकंठम् एकांशंकंपम्, एकांशंमुपरिदलं त्र्यंशंकपोतम्, एकांशमालिंगम् एकांशमन्तरितद्वयंशंप्रतिमुखम् एकांशं वाजनम्, एतत् कपोतबंधं स्यात्।

 उत्सेधं द्वात्रिंशद्भागं विभज्य, द्व्यंशमुपानत् एकांशंक्षुद्रोपानं (नत्)

सप्तांशंपद्मम्, एकांशंकंठम् एकांशंदलं चतुरंशंवृत्तकुमुदम् एकांशंदलम्, एकांशंकंपं, त्र्यंशंकंठम् एकांशंकंपम्, एकांशंपद्यं चतुरंशंकपोतम्, एकांश मालिंगम् एकांशमंतरितंढ्व्यंशं प्रतिमुखम्, एकांशं वाजनम्, एतत् श्रीबंधं स्यात् ॥

 एतेषु नासिकांघीन् युक्त्यायोजयेत् पादबंधे जन्मादिपञ्चवर्गेषु तत्त

दवसाने द्वारस्थलं संकल्पयेतं । अन्येषु पट्टिकान्तेयैवं युक्त्याकारयेत् । प्रत्यंगेषु प्रतेरुपर्युपरिद्वारस्थलं संकल्पयेत्, प्रतिच्छेदं न कुर्यात् कुर्याच्चेत् विनाशाय-भवति सर्वेषामङ्गानां प्रवेशनिर्गम मेकदंडादि त्रिदंडान्तं पाददण्ड वृध्द्या विमान विस्तारबाह्यांग निर्गमं नुवविधं स्यात्। एतेष्विष्टप्रमाणेनोपानद्विस्तारं तचिचतु: पञ्चषट् सप्ताष्टांशं कृत्वा एकांशेखुर