पृष्ठम्:विमानार्चनाकल्पः.pdf/55

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटलः 8 19 विमानस्य विस्तारं पादबाह्यम्,उत्सेधमुपानदादि स्थूपि पर्यन्तंस्यात् मानसूत्रं विन्यस्य ऐशान्यां किंचिदधिकम। आग्नेय्यां किंचिन्न्यूनम्,एवं कारयेत्। अन्यथाचेत् सर्वंनश्व्यति मानसूत्रादूहिर्हस्त मध्यर्थं द्विहस्तं वा अधिकविस्तारायामं जलान्तं शिलान्तं वा दृढप्रकृतिश्चेत् द्विहस्तं सार्धविस्तार मेकहस्तं वा, खनित्वा, तत्खातंचतुर्धा कृत्वा द्व्व्यंशं त्र्यंशं वा बालुकोपलशकलाघैर्जलेन संपूर्य, मुसलै र्हस्तिपादैअर्दारूतूण्डै बृहत्तरैर्वा दृढंकृत्वा, शेषांशां पादमर्धं त्रिपादं हस्तं वा, महद्विमानं चेत् अधिष्ठान द्विगुणम् अध्यर्ध समं वा खातकुड्यं प्रकल्पयेत् तदूर्ध्वदण्डप्रमाणेन समं कृत्वा, तदूर्ध्वेअधिष्ठानम् उपपीठं वा कुर्यात् ॥

  इति श्रीवैखानसे मरीचिप्रोत्ते विमानार्चनाकल्पे विमानविधानंनाम

सप्तमः पटलः ॥७॥

            अथ अषटम: पटल:

अथाऽधिष्ठानकरण रूपभेदा:- पदबन्धं, प्रत्याङगबन्धं, हरिहरहिरण्यगर्भाणां सामान्यकरणं, विशेष- विधानं य (द्) द्वारि तत्प्रवृत्तितल निर्गमंस्यात् पद्यबन्धं पुष्यबन्धं श्रीप्रियाम्बुजं ग्रतिबन्धं प्रतिक्रमं कपोतबन्धं श्रीबन्धमित्यष्टावधिष्ठानानि भवान्ति।


          पादबंधादीनां लक्षणम्

तेषां क्रमेण भागान्वक्ष्यामि - तत्राऽधिष्ठानोत्सेवं त्रयोविंशतिभागं कृत्वा, जन्मतलोपरि एकांशंखुरम्, अष्टांशाजगती, सप्तांशंत्रिपट्टकुमुदम्, ऐकांशंकम्पम् द्व्यंशंकण्ठम्, एकांशंकम्पम्, द्व्यंशामहापट्टि, एकां- शोर्ध्वयट्टिका च, एतत् पादबन्धंस्यात्।

    उत्सेधत्र्यष्टभागं कृत्वा एकांशोपानन्, द्व्यंशंपह्यम् एकांशकम्पम्,

षडंशाजगती, पन्चांशंत्रिवर्गकुमुदम्, एकांशकम्पम्, द्व्यंशंकंठम्, एकां- शंकम्पम् द्वयंशामहापट्टिका, एकांशंपद्यम्, एकांशंपद्यम्, एकाशंकंपम् एतत् पद्मबन्धं स्यात्।

    उत्सेधं षड् विंशतिभागं कृत्वा, एकांशंखुरम् एकांशंपद्य मेकांशांकंम्

पञ्चांशा जगती(च) एकांशंपद्यम् एकांशंधृक् एकांशंपद्यं चतुरश्रंवृत्तकुमुदं।