पृष्ठम्:विमानार्चनाकल्पः.pdf/50

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

14 विमानार्चनाकल्पे महाशास्त्रे दक्षिणाभिमुखौ नरनारायणौ च कृत्वा, एवं नवमूर्त्तिप्रतिष्ठाक्रमेण प्रतिष्ठापयेत् ॥

        षण्मूर्तिबालाऽऽलयविधिः

षण्मूर्त्तिष्ठाचेत् - एवमेव बालगारं कृत्वा, वाराहं नारसिंहं नर-नारायणौ च हित्वा, विष्ण्वादि पञ्चमूर्त्तिं, तृतीयतलकौतुकंच, तत्क्रमेण प्रतिष्ठापयेत् ।

       पञ्चमूर्तिबालाऽऽलयविधिः

पंचमूर्तिप्रतिष्ठाचेतू-तथैव बालागारं कृत्वा, तृतीयतले पश्चमूर्तिकौतुकं वाराहार्दीश्च हित्वा, विष्ण्वादि पश्चमूर्ती स्तत्क्रमेण प्रतिष्ठापयेत् ॥

          नवमूर्त्यादि बालाऽऽलय प्रतिष्ठाविधिः
एतेषां बालबेराणि पूर्ववत्कृत्वा, प्रत्येकमक्ष्युन्मेषाऽधिवासूनादि कृत्वा, आदिमूर्ते र्यागशालाभिमु़खे तत्पाच्यां पुरुषमूर्त्ते; तत्प्राच्यांत्रुतीयतले कौतुकस्य आलयाद्दक्षिणै सत्यमूर्तेः यागशालां, दक्षिणे नरनारायणयोः, आलयात्पश्चिमे अच्युतमूर्ते: योगशालाम्, तत्पश्चिमे नृसिंहस्य, आलयादुत्तरे अनिरुद्धमूर्ते र्यागशालाम्, तदुत्तरे वाराहस्य च, एवं षोदश द्वादशाष्टचतुस्तंभयुक्तां कृत्वा, प्रत्येकं तोरणपूर्ण कुम्भवितान्ध्वजदर्भमालाद्यैरलं कृत्य, मध्ये शय्यावेदिं चतुस्त्रिद्विहस्तायतविस्तारां तत्तुरीयांशोत्सेधां चतुरश्रां च कारयेत्, आदिमूर्ते: पञ्चाग्नीन्पॉण्डरीकाग्निं चकृत्वा अनन्तशयनस्यनृसिंहस्य गार्हपत्यं, नरनारयणो: पॉण्डरीकं कारयेत् | आदिमूर्तेः शयानस्यच प्रत्येकं सभ्याऽग्निमेकमेव कारयेदिति केचित् । तत्तद्यागशालायां प्रत्येकंस्नान  श्वभ्रंचकृत्वा, आलयस्योत्तरे वास्तुहोममेकमेवकृत्वा, गर्भागाराणिं पर्यग्निपञ्चगव्याभ्यां संशोध्य, पुण्याहं वाचयित्वा, सर्वेष्वग्निकुण्डेषु आधारं हुत्वा, आचार्यः तद्वेराऽभिमुखे प्रतिष्ठोत्कविधिना कुम्भान् संपूज्य, आवाह्य, सप्तभि: कलशै बेराणि संस्नाप्य, तत्तद्वेद्यां धान्योपरि 'वेदाह' मित्यण्डजादीनि पञ्चशयनानि, वासांसिवाऽऽस्तीर्य, सर्वान् देवान्तचत्कुम्भ्ं च तत्तद्वेद्यां समारोप्य , पुण्याहान्ते प्रतिसरं बद्धधा, 'यद्वैष्णव' मितियद्दिग्द्वारं तद्दिङ्मॉलिंशाययेत्,