पृष्ठम्:विमानार्चनाकल्पः.pdf/49

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: 5 13 प्रविश्य, शुमे चरराशौ, प्रतद्विष्णु (ऋ० सं० २-२-२४) रिति देवं संस्थाप्य, विष्णुसूक्तं पुरुषसूक्तं जप्त्वा, देवपादौ स्पृशन्, 'भूभुवस्सुव' रितिबिम्बस्य मूर्ध्नि, नाभौ, पादयोश्र्च, क्रमेण विन्यस्य, यकारं पादयोरन्तरेपीठे न्यस्य, अकारं हृदये न्यस्य, तं प्रणवैर्वेष्टयित्वा, कुम्भस्थां शक्तिम् 'श्दंविष्णु' (ऋ० स० १-२-७) रिति मन्त्रेण कूर्चेनाऽऽदाय, ‘आयातुभग्वा' (वै० म० प्र६) निति बिम्बस्यमूर्घ्नि 'विष्णुमावाहयामी' तिसंस्राव्य, आवाहयेत् 'दक्षिणे श्रियं, वामे हरिणी' मित्यावाह्य पीठान्ते प्रागादि सुभ द्राद्याबरणत्रय. देवानाबा आसनाद्युपचारैरभ्यच्यं, पुण्याहं वाचयित्वा, दक्षिणेब्रह्माणम्, उत्तरे मार्क डेयं, वामे शङ्करं, पद्मपितरंद्वारेषुधात्रादि द्वारदेबान् द्वारपालन् विष्वक्सेन गरुड् प्रभूतादि महाभूतान्तान् परिपद्देवान् नवभेदेषु एकमार्गेणाऽऽवाहयेत् पायसं शुद्धनं प्रभूतं वा, निवेदयेत्, अन्यत्राऽऽचाहन विसर्जनं च हित्वा नित्यार्चनविधानेन नित्यं सम्यगर्चयेत् । इति श्रीवैखानसे मचिग्रोले विमानार्चनाकल्पे बालालय प्रतिष्टा- विधिर्नाम चतुर्थः पटलः । अथ पञ्चमः पटलहः अथ नवषट्वनि तरुणालय विशेषं वक्ष्ये । नवमूर्तिबालाऽऽलयविधिः पूर्वोक्ते देशे तस्य प्राकारान्नातिक्रम्य नवहस्तायत विस्तारं तरुणालये कृत्वा, तस्मिन्नेकाशीति विभागं कृत्वा, तन्मध्ये नवभागं गर्भागारं, तद्- हिष्घोडशभागमभ्यन्तर भित्तिः, तद्वहिः चतुर्विंशतिभागमलिन्दं, तद्वहि द्वात्रिंश ब्रगं बाह्यभित्तिः, तद्भित्तौ (चतुर्दिक्षु) चतुद्र युतमेक द्वारयुतम् अन्यासु जालकं वा, समं त्रिपाद मर्धवा, मुखमण्टपं, गर्भागारं सप्त सप्त विभागं कृत्वा, ब्राह विष्णुमूर्ति, तत्पश्चिमे मानुषभागे तृतीय तले कौतुकस्य, द्वितालच्झायं पीठं कृत्वा, अलिन्दे द्वारदक्षिणे पुरुषमूर्ति प्राङ्मुखम्, अलिंद्रे दक्षिणाभिमुखं सत्यं, तथापश्चिमे पश्चिमाभिमुख मच्युतं उत्तरे चोत्तराभि मुखमनिरुध्दं, तदलिन्दै अनिरुध्दमूर्तेर्वामपादं द्वितीयतले वाराहमुत्तराभि | मुखम् अच्युतरुतरपाश्र्वे पश्चिमाभिमुखं नारसिंहं सत्यमूर्तेः पश्चिमतो