पृष्ठम्:विमानार्चनाकल्पः.pdf/45

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटलः 3 वस्त्वभिमुखामेव कल्पयेत्, विमाननिर्देशहस्तादिदण्ड मानेनैव विन्यसेत्, अन्यत्सर्वंवस्त्वड्गवास्तुवहण्छेदं परिहृत्य, ग्रामादिकं हस्तछेदं परिहृत्य, गृहादीनि च कल्पयेत्, वस्त्वंगवास्तुवीथ्थां प्रदिलोमाऽन्तरालव्रात्यान्, नैवकल्पयेत्, चतुर्वीथिकमुत्तमं, त्रिवीथिकं मध्यमं, द्विवीथिकमधमम्, एकवीथिकमितिकेचित्, अनुकर्मणि वस्त्वं गवास्तुनस्समं समन्ताद्दद्धिरिष्टा, वास्तु वस्त्वंगविन्यासा संकीरणौ नैवकारयेत् ।

       कर्षणकालः युगादिलक्षणम्

अथोर्ध्वंवक्ष्ये कर्षणविधिम् - मार्गशीर्षादिद्वादश मासेषु उद्दिष्टमासे, शुक्लपक्षे, यजमानाऽनुकूलर्क्षे, यत्र देवाऽऽलयं कुर्यात् तत्र त्रिकराध्येकोनषष्ठिकरान्तम् यथेष्टं शक्त्या विमानं, समण्टपं, सप्राकारं, चतुर्दिशं सीमां विनिर्णयति, अत्रतृणगुल्मलतादीन् संशोध्य, उन्नताऽवनतं समीकृत्य, युगलांग (ह) लादीन्याहरेत्, युगंवैणवं,द्विषट् प्रादेशं तथा खदिरेण क्षिणियमसनेपञ्चतालं, हलंशिरीषेण चतुस्तालम् ऋषिं पश्चप्रादेशम्, अंगुलपरिणाहंप्रतोदं शेषं युक्त्यैवकारयेत्

            कषणप्रकारः

मौञ्जीं त्रिवृतां रज्जुमाहत्य, वृषौ, श्वेतौ रक्तौ, कृष्णौ वा, न मिश्र वर्णा, संपूर्णऽगौ, सुमुखावरोगिणौ, निरुष्टौ सुजर्णश्रुंगौ रौप्यखुरौच कृत्वा, सर्ववाद्यसमायुक्तं यजमानो गुरुश्च वैष्णवैस्सार्धं तां भूमिं संप्रविश्य, तत्र पश्चिमे प्रपां कृत्वा, तन्मध्ये विष्वक्सेनं प्राड्मुखं, दक्षिणे चक्रम्, उत्तरे वीशं च, धान्यपीठे समावाह्य, मुद्गान्नं गरुडस्य, अन्ययोः शुद्धऽन्न्ं निवेद्य, अभिमुख वृषौ प्राङ्मुखौ संस्थाप्य, तृणमुष्टिं प्रदाय, आचार्यो यजमानेन वस्रोतरीयाभरणै रभिपूजितो गृहीत दक्षिणो, मौीरञ्जीरजुं गृहीत्वा, वृषौ। ‘रुद्रमन्य' मितिबन्धयेत् 'त्र्यंबक' (ऋ. सं. ५-४-३०) मितियुगं, लांगलंच, वैष्णवं मन्त्रमुच्चार्यतां भुवं पश्चिमादि त्रिरेखं कर्षयेत् ।

        बीजाऽऽवापादिकम्

पश्चात् कर्षकमाहूय अलंकृत्य, सर्वामपिबहुशः कर्षयित्वा, बीजानिच वापयित्वा, सर्वान् व्रीहीन् बाषयेत्, उत्तमं षाष्टिकम्, प्रियंग्वादी (दि)न् मध्यमम्, मुद्रसर्षपादी (दिअ)नधमम्, अस्मिन्सोममभ्ययं विष्णुसूक्तेना