पृष्ठम्:विमानार्चनाकल्पः.pdf/41

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटल: 2 विष्णुक्रान्तस्थलारविन्ददूर्वायुतां भूमिं, सुमुहूर्ते गृहीत्वा, आचार्य: प्राङ्मुख, उदङ्मुखो वा नीत्वा यस्मिन्देशे 'जीवन्त' इति जलं प्रक्षिप्य, मेदिन्यादिनाहस्ताभ्यांभूममभिमृशेत् 'इदंविष्णु' (ऋ० १-२-७) रित्याहरेत्। त्याज्यभूमिकथनपूर्वं निमित्तदर्शन प्रकारः नपुंसक वृक्षाऽऽढ्यं मूष-कपालाऽस्थि-पाषाण शर्कराऽऽकीर्णं, वल्मीकपतंग-कूप-भस्मां-गार-तुष-केशाऽन्विताम् अन्त्यजादिभूयिष्ठां भूमिं त्यजेत् । पूर्वोक्ते देशे हस्तायतविस्तारावगाढं खनित्वा, तदवटे तां मृदं प्रक्षिपेत्, अधिके महर्ती वृद्धिं, हीने हानिं, समे समं, विद्यात्। निमित्ताऽन्तर दर्शनपूर्वं कार्यारम्भविधिः अथाऽन्यैर्निमित्तैस्संलक्ष्यकार्यमारभेत् । ग्रामादौचतुः षष्ठ्यादिभागकरणपूर्वं विष्ण्वर्चनविधिः ग्रामादिष्वेवंविधाय,चतुष्षष्ठिपदमेकशीतिपदं षट्पण्चाशदुत्त- रद्विशतपदं वा कृत्वा, तन्मध्यं ब्रह्मभागं चतुर्धाकृत्वा, तद्वायव्यांशे पश्चिमे पूर्वे वा मध्यसूत्रादुत्तरे दत्त्क्षिणे वा, तत्सूत्रं देवस्य दक्षिणपादपार्श्वं प्रासादप्राकाराणां भित्तिं वा समाश्रितं, एवं संकल्प्य, देवेशं विष्णुं नवषट्पञ्चमूर्त्तिविधानेन प्रतिष्ठाप्य अर्चयेत् । ऐशान्यादिषु शंकरादिभवनम् ऍशान्यां शंकरभवनं प्राड्मुखं, वारुणे देवेशं प्राड्मुख मासीनं स्थितं, वा आदित्यांशे भास्करालयं प्रत्यङ्मुखं, याम्ये विन्ध्यवासिनीं प्राङ्मुखीं, भूतेशे विघ्नेशं, सुग्रीवे षण्मुखं, अदितॉ मातुकोष्टं षरान्युखं, जयंते, दौवारिके वा, कृष्णस्याऽऽलयं, पुष्पदन्ते, शोषणे वा, राघवस्याऽऽलयं, महेन्द्रे महामत्स्यं सत्यके कूर्मस्याऽऽलयं, नैर्त्र्श्रते वाराहं, जवने वा अन्तरिक्षे वा नारसिंहं, (रोहिणे) नागे वामनं, त्रिविक्रमं च, गन्धर्वे बलभद्रं, मुख्ये परशुपाणिं, सूरिदेवे कल्किनम्, सोमेशयानं, गृहक्षते दॅविकं वासुदेवं, वितथे मानुषं वासुदेवं, उष्णाशालादिमूर्त्तिं भुंगराजे, ग्रमाद्वाहो वा पन्चवीराणां स्थानम् ।