पृष्ठम्:विमानार्चनाकल्पः.pdf/42

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

6 विमानार्चनाकल्पे महाशास्त्रे ग्रामादौ तत्प्रेक्षमूर्ति स्थापनविधिः ग्राममध्ये बाह्ये दिक्षु विदिक्षु वा सर्वत्र स्थितमासीनं शयानं यानकं वा, ध्रुवकौतुकं, ध्रुवार्चा वा, ग्रामप्रेक्षमेव कारयेत्। ग्रामाद्वाह्येविप्राऽऽवासस्थले नदीतीरादॉ वा ग्रामाद्वाह्येऽपि यत्र विप्रैर्वस्तव्यं तत्रैव मध्ये दिशासु विदिशासु च देवं, देवीभ्यां सहितं वा, संस्थापयेत्। वन नद्यद्रिसमुद्रपार्श्र्वे अन्यत्र तटाका ऽऽरामसमीपे विविक्तदेशे वा ! आलयद्वारस्योत्तमोत्तमत्वादिकम् प्राग्द्धारमुत्तंमोत्तमं , पश्चिमद्वारमुत्तमं, दक्षिणद्वारं मध्यमम्, उत्तर द्वारमधमम्। एकाऽनेकमूर्तिविधानम् सहस्रविप्राऽधिकग्रामादॉ मध्ये विष्णुमनेकमूर्ति विधानेनाऽर्चयेत्, अशक्तश्र्चेदेकमूर्तिविधानेनवा| तन्न्यूने पन्चविंशतिद्वयादर्वागपि पण्चमूर्तिं षाड्मुखं, प्रत्यड्मुखं अनेकमूर्तिं वा, अन्येषां नगर्यादीनां पश्चिमे च एकमूर्तिविधिना विष्णुंप्रतिष्ठाप्याऽर्चयेदित्याह मरीचि: | इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे भूपरीक्षा ऽऽलयदेशविधिर्नाम द्वितीयः पटलः ||२|| अथ तृतीय: पटल: अथ ग्रामादिवास्तुभेदः- ग्रामा-ऽग्रहार-नगर-पत्तन-खर्वाट-कुटिक-सेनामुख-राजधानी-शिबिरा इति भेदाभवन्ति । ग्रामादीनां स्वरूपम् विप्राणां सभृत्यानां निवासो ग्रामः विप्रमुख्यानां अग्रहार: अनेकजन संबाधमनेकशिल्पि क्रयकविक्रयकाऽधिष्ठितं सर्वदेवता संयुक्तं नगरम्, द्वीपान्तरगतद्रव्य क्रयकविक्रयकाऽधिष्ठितं पत्तनम्, उभयसंमिश्रं खर्वटं, सपरिवारकॅकग्रामणीकं कुटिकं,सर्वजातिसमाकीर्णं नृपवेश्म समायुक्तं