पृष्ठम्:विमानार्चनाकल्पः.pdf/39

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटलः 1 3 भगवदर्चनेश्रुतिः तस्याऽर्चने श्रुतिः- प्रवः पान्थमन्धसोधियायते महे शूराय विष्णवेचाऽर्चत, (ऋ०स०२-२-२६) धृतोध्र्वपुण्ड्रः परमीशितारं नारायणं पूजयतिस्म भक्त्या, अर्ध्यादिभिः पुरुषसूक्तमन्त्रैः संप्राप्नु याद्विष्णुपदं महात्मे" ति । ध्यानाद्भगवतः सकलत्वाऽभिव्यक्तिकथनम्, तदाराधनस्य फलकथनम् पद्मकोश प्रतीकाशे विश्वस्याऽऽयतने पृथौ, हृदयेऽग्निशिखा परमात्मानं व्यवस्थितं ध्यानेन पश्र्येत् । यथा आकाशगतोवायुः विहरणेन सन्निहितोभवति, तथातत्र अचलँमनः क्रुत्वा तद्भक्त्या तेजोभासुरं रूक्मवर्णं रक्ताऽऽस्यं शुचिस्मितं ज्योत्स्नाऽवभासिताऽधरपल्लवं रक्तनेत्रं सुस्निग्धतनुं शंखचक्रधरं मकुटहारकेयूरादिभूषणॅर्भूषितं सकलं शाश्र्चतं सर्वभूतेषु अशरीरमवस्थिम् अतिसूक्ष्मम्, अनिर्देश्यम्, अतिमात्रम्, अतीन्द्रियम्, अव्यक्तं प्रक्रुतेर्मूलम्, अनादिनिधनम् अखिलजगत्स्रुष्टिस्थितिलयकारणम् अचिन्त्यं निर्गुणम् अप्रमेयम् अप्रमत्तं सत्तामात्रमितिग्नात्वा ध्यायेत् ।

तद्धयानकथनसंकल्पनात् सकलोभवति, भगवदाराधनेन ऊर्ध्वगतिर्भवति । 

आचार्यादिवरणम् तत्रसर्वकार्योपदेशकं वॅखानससूत्रोक्तनिषेकादि संस्कारॅः संस्क्रुतम् आचार्यम्, अर्चकपरिचारकस्थापकादीन्रुत्विजश्र्च वरयेत् । आराधनस्यभेदः प्रतिमार्चनस्य सहेतुकंश्रॅष्ठ्यम् तदाराधनंद्विविधम् - अमूर्त्ंसमर्तमिति अग्नॉहुतममूर्तम्, प्रतिमाराधनंसमूर्तम्, तच्छ्रेष्ठं यजमानाऽभावेऽपिअविच्छिन्नंभवति । विमानार्चनस्य फलजनकत्वम् तद्विमानाऽर्चनं सर्वक्रतुफलप्रदं सर्वकामप्रदंचेति ब्रह्माचाऽशं सत् । तस्मात्क्रमेण क्रियामार्गं विस्तरतो वक्ष्यामि, तदवहितमनसः श्रृणुध्वमित्याह मरीचि: ॥