पृष्ठम्:विमानार्चनाकल्पः.pdf/38

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2 विमानार्चनाकल्पे महाशास्त्रे मरीच्युत्तमुत्तरम् मरीचिरुवाच-सुप्रसन्नं परमात्मानं नारायणं ध्यात्वा अभिवन्द्य श्रुत्यनुकूलेन मार्गेण चतुर्वेदोद्भवैर्मन्त्रैः तमर्चयन्तः श्रुतिभिरभिहितं शाश्वतम् अतीन्द्रियं परात्परतरं देवैरनभिलक्ष्यं तद्विष्णोः परमंपदं गच्छेयुः (प्राप्नुवन्ति) इति। विष्णोः सर्वोत्तमत्वे श्रुतिः " श्रुतिस्तावत् “विष्णु (वै) सर्वादेिवताः, ( ) पुरुषएवेदंसर्वम्, (ऋ०स०८-४-१७) सब्रह्मासशिव: सेन्द्र: (तैत्ति० आ०८-२६) एषब्रह्माएषइन्द्रः एषप्रजापतिः एषसवदेिवताः, ( ) अग्निर्वै देवानामवमः विष्णु: परमः तदन्तरेणसर्वा अन्यादेवताः, (ऐत० ब्रा० १-प०१-अ०१) यस्मात्परंनाऽपरमस्ति किंचित् यस्मान्नाणीयोनज्यायोऽस्तिकश्चित् वृक्षइवस्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेणसर्वम् (तै०उ०४) (परंब्रह्म) परंज्योतिः अापोज्योतिः) इति । विमानार्चनपदनिरुक्तिः तस्मात् - परंब्रह्मपरंज्योतिरक्षरं सर्वभूतात्मकं सर्वाऽऽधारं सनातनं परमपुरुषमर्चयेत् - तत् - विमानाऽर्चनम् । अर्चनफलम् ग्रामाऽग्रहारयो र्निवासिनाम् अनाहिताऽग्नीनां सामान्य मग्निहोत्रफलदम्, अहिताऽग्नीनां सर्वनिष्कृति होमार्थं, सर्बसमृद्ध्यर्थं च भवेत् । तद्विधिपूर्वकं विखनसोत्तस्य विस्तरेण कथन प्रतिज्ञा तस्मात् - ‘अग्नौनित्यहोमान्ते विष्णोर्नित्याऽर्चा गृहे देवायतनेवा भक्त्या भगवन्तं नारायणमर्चय्येत्" (दहम) शेषविशेषेण समन्त्रकंसप्रयोगं क्रियामार्गं क्रमेण विस्तरतो वक्ष्यामि । आधारादीनां ग्रुहोद्रष्टव्यता तस्मात् यत्र यत्र होमो(म)विधानं तत्र तत्र अग्न्याऽऽघारस्विष्टकृत्प्रभृत्यन्तहोमाश्च अस्य मन्त्राः वैखानस सूत्रे द्रष्टव्याः ।