पृष्ठम्:विमानार्चनाकल्पः.pdf/37

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीनिवासपरब्रह्मणे नमः श्रीमद्विखनसमहागुरवे नमः अविघ्नमस्तु (शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्याये त्सर्वविध्नोपशान्तये ॥) वन्देश्रीनयनोत्पलस्य शशिनं शेषाचलाऽधीश्वरंब्रह्माध्यर्चितपादपधयुगलं लोकैकनेत्रोत्सवम्। ब्रह्माध्यर्चितपादपध्ययुगलं लोकॅकनेत्रोत्सवम् । वासिष्टैः सूनकादिभिर्मुनिगणैः संस्तूयमानंसदाभक्तानामखिलार्थदायिनमहं श्रीवेङ्कटेशं (गुरु) परम् ॥ हॅमोर्ध्वपुण्डमजहन्मकुटं सुनासं मन्दस्मितं मकरकुण्डलचारुगण्डम् । बिम्बाधरंबहुलदीर्घकृपाकटाक्षं श्रीवेङ्कटेशमुखमात्मनि सन्निधत्ताम् ॥ श्रियःकान्तायकल्याणनिधयेनिधयेऽर्थिनाम्। श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम्) ॥ (कोटिमन्मथलावण्यं सर्वगन्धर्वसन्निभम् । श्रीरुक्मणीप्राणनाथं वन्दे श्रीकृष्णदैवतम् ॥ श्रुतिस्मृतिनदीपूर्ण शास्त्रकल्लोलसंकुलम्। विष्णुभक्त्युदकंशुद्धं वन्दे श्रीविखनोऽर्णवम्) ॥ १ ॥ मरीचिंप्रतिऋषिप्रश्नः

श्रीमरीचिंमहामुनिं स्वशिष्याऽर्पितकुशाऽऽसने समासीनं सर्वज्ञं जितेन्द्रियं शुद्धं नानालोकनिवासिनो धर्मसंसक्ता (संयुक्ता) ऋषयः समाऽऽगम्य, आनम्य, ‘भगवन् केनमार्गेण कैर्मन्त्रैः कं देवमर्चयन्तः कांन् लोकान् गमिष्यन्ति' इत्यूचुः ।