पृष्ठम्:विमानार्चनाकल्पः.pdf/360

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33 विमानार्चनाकलपे महाशास्त्रे 38 9ikáři: UČKoi: सामांधस्वरूपम्-लल्फलम् । अथुतः समाधिं वक्ष्ये--जीवात्म(नः)परमात्मानी(त्मस} स्समावस्थसमाधिः । यथा अनुष्णीषलमादित्यदर्शनादुष्णत्वमाश्रितमिव (तथा) परामात्मादर्शनात् प्रत्यात्मा नित्यशुद्धवुद्धमुक्तस्वभाव (क) परमानन्दमयत्यं प्राप्य, परभात्मानं नारायणं सदापश्यत्यनुभवत्येव् ! अष्टांऽगयोगमार्गेण नित्यमणिमाद्यैश्चर्यं च प्राप्नोति । जीवन्मुक्तो भवेत् । दठ्ठट्य़ प्रकार: शोधयित्वा, सर्वेषु नाडीमार्गेषु निरुध्य 'हंसे'ति सुषुम्नयाचोध्र्व गत्वा, हृदयाऽम्भोजे प्राणमारोप्य, तदन्तराकाशे परे ज्योतिषि मनोवृत्तिं सुसंयम्य, देन(समुद्धाटयति) समुत्था(प्य) पयित्वा, प्राणमुत्सृजति । प्राणेनसह सर्वमात्मनि प्रलीयते । तदा परमात्मनासह बैकुण्ठ मवप्नोति। ग्रन्थोपस्संहारः , इत्येवं संसारसमुद्रोत्तरणोपायसाधनं ज्ञानयोगं च ब्रह्मण पुरा मम प्रणीतम् । तदेव युष्माकं मयाञ्चोक्तं । ज्ञानोपदेशं गुरुशिष्यमार्गेण ज्ञात्वा, पश्चात्परमात्मानं सदा पश्येत्। एवं सदाध्यातुमशक्यत्वात्, प्रतिमादिषु पश्च मूर्तिनामभेदैः समावाह्य अभ्यर्चयेत्।। एतत्समूर्तार्चनम्। सर्वसिद्धिप्रदत्वात् गृहे देवायतने वा समूर्तार्चनमेव कारयेत् । अन्यथा न परंपदमाप्नोति । तस्मात् श्रुतिचोदितं परमगुह्य मेतत् ज्ञानयोगं च ज्ञात्वा समाचरे दित्याह मरीचिः । समाधिभेदोनाम शततमः पटलः ॥१००॥ (मातृकान्तरे९६)