पृष्ठम्:विमानार्चनाकल्पः.pdf/359

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्लॅ: 33 327 तत्र सन्निहितो भवेत् । इति निर्गुणध्यानं भवतीति विज्ञायते ॥ (मातृकान्तरे ૨૪) अथ सगुणध्यानं वक्ष्ये - आदित्यमंडलमनुप्रविश्य, तत्रस्थ पुरुषंदृष्ट्वा, ततश्चेडया चन्द्रमण्डलमनुप्रविश्य, तत्र मण्डल पुरुषं दृष्ट्वा ततो ज्वलिताऽग्निना कुण्डलीमुख (ख)ज्वलनेन दध्वा, सुषुम्नयाचोध्र्वगत्वा, प्राणायामेन विकसित हृदयकमलांतराकाशे। वैश्वानरशिखामध्ये चतुरश्र हेमार्भ बिन्दुनासह यकारबीजान्वितं माहेन्द्रमण्डलं तन्मध्ये अर्धचन्द्राऽऽकृतिं श्वेतं बिन्दुनासह वकारबीजान्वितं वारुणं(मण्डलं) ध्यात्वा, तन्मध्ये प्रणववेष्टितं सुवर्णाऽऽभूमादिबीजं, स्मृत्वा, प्रज्वलितज्योतीरूपमेढ्रं भुक्त्यृ! सकलं येत् । एतत्सगुणध्यानमुत्तमम् ! सर्वसिद्धिप्रदं सर्वत्र प्रयोक्तव्यम् । हृत्पद्मान्तराकाशे वैश्वानरशिखामध्ये अग्नि(अर्क)मण्डलं पूर्व स्सहवृतं यज्ञमूर्त्ति पूर्ववत् ध्यायेत् । अग्निहोत्रादि ह्येमः तदपि सगुणध्यानम् । हृल्पद्ये वैश्वानरशिखामध्ये अर्कमंडलं पूर्ववत् ध्यात्वा, पद्ममध्ये एतत्सगुणध्यानं सर्वत्र प्रयोक्तव्यम् सर्वसिद्धिप्रदम् । हृदयकमलान्तराकाशे वैश्वानरशिखामध्ये सोममंडलंपूर्ववद्ध्यात्वा, ध्यायेत् । सगुणध्यानं सर्वसिद्धिप्रदं सर्वत्र प्रयोक्तव्यम् । । एवं सगुणध्यानं चतुर्विधं भवति । एतानि वैदिक ध्यानमार्गाणि अन्यान्यवैदिकानि सर्वाणि जघन्यानि । तैःषड्भःप्रकारैः भगवंतंनारायणं नित्यसर्व्वनितं भवति । सर्व्वं समाधिना पश्यतीति विज्ञायते । नाम एकोनशततमः पटलः ॥९९॥ (मातृकान्तरे ९४)