पृष्ठम्:विमानार्चनाकल्पः.pdf/358

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

326 विमानार्चनाकल्ये महाशाख्ने हृदयात् भ्रूमध्यान्तं वायुस्थानं तत्र यकारसंयुक्तं वायुमारेप्य, पुरुषमूर्तिं नाडीष्वकारसंयुक्तं वायुमारोप्य हृन्मध्ये प्रणवेन कार्यम् ! स्वे स्वे संभृ(ह)त्यकरणे प्रणवस्य नादान्ते परमानन्दविग्रह परमात्मानं नारायण ऐंकाशं ध्यात्वा धारयेत् । एतां धारणां नियमादि संयुक्तः नित्यमाचरेत् । इत्याह मरीचिः । इति श्रीवैखनसे मरीचिप्रोके विमानार्चनाकल्पे धारणाविधिनाम अष्टनवतितमः पटलः ॥९८॥ (मातृकान्तरे ९३) 3e ggòO9ccia: uCC: ध्यानस्वरूपम् तद्विभागः अथातो ध्यानं वक्ष्ये - परमात्मनो जीवात्मना चिंतनं ध्यानं, निष्कलं सफलमिति (तत् द्विविधम्) । निष्कलं देवैरप्यनभिलक्ष्य मदृश्यं रूयात् । सकलं द्विविधं निर्गुणं सगुणं चेति । निर्गुणं निष्कलस्वभावः । परमात्मनोन्यन्नर्किधिदस्तीति काप्टे अग्निरिव सर्वव्याप्य आकाशोपमः सर्वेषां अात्मगुह्यायां निहितः अन्तर्बहिश्च संस्थितो दृश्यादृश्यस्थूलसूक्ष्मः अमलोऽत्यच्छः अप्रमेयो निरवयवो निरुद्योगो निस्थोऽचिल्यो निष्कलः तमेव प्राणायामप्रत्याहार धारणादात्मसंस्कारं कृत्वा आत्मना पश्येत् । देहान्मर्धपर्यन्तं भ्रवोर्मध्ये मान् नारायण अव्ययम् अव्यतम् एकरूप परंज्योति ज्वलति । अवभासयति । एवं निर्गुणध्यानम् ‘नारायणपरंज्योति रात्मा नारायणः परः’ इति श्रुतिः । तस्मात्प्रधानपरमोऽव्ययो विष्णुस्सदा ध्येयः । निष्कलमेव प्राणायामैर्विकसितहृदयकमलतिराकाशे वैश्रधानरशिखामध्ये परंज्योति ज्वलिारूपवत् स्वयमेवपुरुषः कृष्णपिंगलः ऊर्ध्वं रेता विरूपाक्षः विश्वरूपः परमानंदविग्रहो भवेत् । तं परमयाभक्त्या पश्येत् ।