पृष्ठम्:विमानार्चनाकल्पः.pdf/353

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्टन: 95 32’ 3थ पंCCCतिC#ः qट-1: चत्तर्विधा भगवत्समाश्रयणम् अथ भगवत्समाश्रयणं चतुर्विधम् भवति (समाराधनमित्यामनंति) जपहुताऽर्चनाध्यानमिति । सावित्रीपूर्वं वैष्णवीमृचम्, अष्टाक्षरं(च)वा, भगवन्तं ध्यात्वा अभ्यसेत् स जपः; अग्निहोत्रादिहोमे यत् हूयते तध्दुतं होमः; (पूज} गृहे देवायतने वा वैदिकेन मार्गेण प्रतिमादिषु पूजयेत्। ; निष्कलसकलविभाग छ ज्ञात्वा अष्टांऽगयोगमार्गेण धरमल्मान जीव आत्मना चिन्तयेत् तद्ध्यानमिति । अर्चनस्योत्तमल्बम, मूर्तिभेदनिरूपणम्। तेष्वर्चनं सर्वार्थसाधनं स्यात् । तत्र परमात्मैव पञ्चधा भवति । ‘स वा एषपुरुषः पंचवा पंचात्मे' ति श्रुतिः । । तस्मादाकाशादि महाभूतानां(क्रमेण) परमात्मानि भेद एव। सभ्याऽऽहवनीयाऽन्वाहार्यगार्हपत्याऽऽवसथ्या इति पश्चाऽग्निवत् ‘पश्चधाग्नीन् व्यक्रमद्विराट्स्रष्टे' ति श्रुतिः ! प्राणादि पश्चवायुभेदैरिव पञ्चमूर्त्तिभेदैर्भिद्यतेति ‘पोपूयमानेः पञ्चभिः स्वगुणैः प्रसन्नैः सर्वानिमान् धारयिष्यसी' ति श्रुतिः । तस्मात् ‘विष्णुपुरुषसत्याऽच्युतानिरुद्ध’ इति । · मूर्तीनां पश्चानां अदिमूर्त्तिर्विष्णुः तद्भेदाश्च चतस्रो मूर्त्तयः । तद्विष्णोः श्रमापनुदायश्चतुर्गुणाये'ति श्रुतिः तस्मात् ‘ब्रह्माच्चतुष्यात्’ भवति । पादा दर्धात् त्रिपादात् केवलाच्च क्रमेण धर्मज्ञानैश्वर्यवैराग्यैरिति विषयगुणैः र्पः मूर्त्तयो भवन्ति । अादिमूर्ते श्चतुर्मूर्त्तित्वात् क्रमेणविष्णुर्महाविष्णुः । विष्णोरंशः,पुरुषः महाविष्णो रं३:सत्य: सदाविष्योरंश:अच्युतः व्यापिनींऽशोनिरुद्धः इति धर्मादि ब्रह्मगुणै श्चतुर्धाभिद्यते । पुरुषः पुरुषात्मकःपरमपुरुषः धर्ममय इति, सत्यः सत्यात्मकः ज्ञानस्सर्वतेजोमय इति, अच्युतोऽपरिमितः