पृष्ठम्:विमानार्चनाकल्पः.pdf/352

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32O विमानार्चनाकल्ये महाशास्त्रे अर्चिषो ऽहरह्नश्शुक्लपक्षंतस्मादुत्तरायण षण्मासां स्तत स्संवत्सरं तस्मादादित्यं तत स्सोमं राजानं ततो वैद्युत मिति । एतेषु देवता स्तानेषु प्रविश्य कृत सूक्ष्मदेह परित्यागः पूर्वोक्त वैष्णवांडं गच्छतीति विज्ञायते । इति श्रीवैखानसे मरीचिप्रोके विमानाचनाकल्पे जीवोद्भबोनाम त्रिनवतितमः पटलः ॥९३॥ (मातृकान्तरे ८६) अथ चतुर्ज्जततितमः पटC1ः संसारहेतुः अथ अयं देहजन्मकृत्वा भार्यामयपाशनिबन्धितो भगवन्मायया मोहितः कामक्रोधलोभमोह मद मात्सर्य हिँसादीनि करोति । योनि द्धारेण निष्क्रम्य पुन:पापीयर्सीयोनि माश्रित्य पुनर्जायमानः । स्वर्गनरकफलेषु कर्मसु प्रवर्तते । तस्माद्भगवन्मायया मोहितत्वात् भगवन्तं समाश्रित्य भक्त्या नारायणमुपासीत । तच्तरणोपायः तदुपासनात् सोपि भक्तवत्सलत्वात् भक्तानुकंपया (स्वमायां) मोचयति । तत आत्मा सम्यज्ज्ञानं प्रविशति । पश्चादाश्रमधर्मयुक्तो भगवदाराधनं करोति तदाराधनेन संसारार्णवनिमग्नो जीवात्मा परमात्मानं नारायणं पश्यति । सोप्यपुनरावृत्तिकं दिव्यलोकंप्रसादयति । पश्चात्कृतकृत्यो ૪વતિ } मोक्षस्वरूपम् तद्भेदः संसारबन्धन वासनान्मुक्तिर्मोक्षः । तदपि समाराधनविशेष: सालेक्यं सामीप्यं सारूप्यं सायुज्यमिति । आमोदप्रामिः सालोक्यं; प्रमोदप्राप्तिः सामीप्यम्, संमोदप्राप्तिः सारूप्यं, वैकुण्ठप्राप्तिः सायुज्यमिति । तच्च नित्याऽऽनन्दम् अमृतरसपानवत् सर्वदा तृप्तिकरं परमात्मनो नित्यनिषेवणं परंज्योतिः प्रवेशनम् । ‘तद्विष्णोः परमं पदं सदा पश्यन्तिसूरय' इति श्रुतिः ॥ भगवन्तं” नान्यथा प्राप्नोतीति विज्ञायते ।