पृष्ठम्:विमानार्चनाकल्पः.pdf/348

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

316 विमानार्चनाकल्पे महाशास्त्रे अथ द्विनवतितम्: पटल: नाडिसंख्वया:, तत्र मुख्या:, तत्स्वरूपम् अधातो नाडीचक्रं वक्ष्ये - कन्दोद्भूता(नि) द्विसप्तति सहस्राणि नाडयः, तासु मुख्याश्चतुर्दश, इडा, पिंगला, सुषुम्ना, सरस्वती, वारु(चारणा)णी, पूषा, हस्तिजिल्हा, यशास्विनी, विश्वोदरा, कुहू, शंखनी, पयस्विनी, अलंबुषा, गान्धारीत। अासा मादौ तिस्रा मुख्याः। तिसृषुसुषुम्नैव प्रधाना व्यक्ता वैष्णवी सात्वि(की)का मुक्तिमार्गेति विद्बुद्भिः कथिता । सा कृंदमध्ये (पद्मसूत्र प्रतीकाशा वीणादण्डान्तर्निर्गतंत्री, अलाबुवदूंशा स्थिना सहमूर्धान्तं स्थिता, तस्या दक्षिणभागे दक्षिणनासान्तं स्थिता पिंगला तस्यांभास्करश्च रति। इडावाम(पर)भागे वामनसान्त स्थिता । तस्यां चन्द्रश्वरत। तौ राजसतामसौ विषाऽमृत भागौ दिवारात्रौ स्याताम्। सुषुम्नायाः पूर्वभागे च ऊध्वऽधोगता मेद्वान्तांस्थिता कुहू, अपरेची (ध्र्वगता) ध्वाधो गता जिहान्तंस्थिता सरस्वति पिंगलाया: पूर्वभागेचोर्ध्वाSधोगता दक्षिणपादांSगुष्ठान्तस्थिता यशास्विनि अलंबुसा च, अपरे दक्षिण नेत्रान्तं स्थिता पूषा पूषाऽलंबुसयो र्मध्ये वामनेत्रान्तं स्थिता हस्तिजिह्वा यशस्विनी कुहोर्मध्ये ऊंध्र्वगत सर्व गामिनी दक्षिणपाण्यंगुष्टांतंस्थिता(चरणा) वारुणी पूषासरस्वत्योर्मध्ये दक्षिनकर्नान्तं स्थिता पयस्विनी इडाया: पूर्वभगे चोर्ध्वाSधोगतावामपादांगुष्ठान्तंस्थिता (गान्धारी) हस्तिजिह्वा।अपरे वामपाण्यंगुष्ठान्तं स्थिता विश्चोदरा । गान्धारीसरस्वत्योर्मध्ये वामकर्णातंस्थिता शंखिनी । अलंबुसा कंदमध्ये ऊर्ध्वाधोगताः (दधोगताः) सर्वगामिन्यः पायुमूलाग्रगता अन्यास्सिराश्व अश्वत्थपत्रसिरावत्समुत्पन्ना ईतेि विज्ञयते । इति श्रीवैखानसे मरीचिंग्रोते विमानार्चनाकल्पे नाडीनिरूपणंनाम द्विनवतितमः पटलः॥९२॥ (मातृकान्तरे ८५प०)