पृष्ठम्:विमानार्चनाकल्पः.pdf/346

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानार्चनाकल्पे महाशास्त्रे नाभिः तत्रद्धादशारचक्रं, तत्र जीवः भिर्भूषितं, (म) अण्डाकृतिकं, कन्दमध्ये नाभिः नाभौ (नाभेः) द्वादशारयुतं चक्रं, तत्र चक्रे पुण्यपापप्रचोदितस्तन्तुपञ्जरमध्यस्थो लूतिक इव प्राणारूढः प्रवर्त्तते (भ्रमति) जीवः | नाभेरूध्र्व्वं कुण्डलिनी शक्तिः तख्योध्र्वे नाभौ (भे:) तिर्यग्गता अष्टप्रकृति (रष्टधाकुटिला नागरूपा विद्यामु (युन्मु) खेन मूत्र (ऊध्र्व) द्वारं संरुध्य, कन्दपार्श्व स्थिता कुण्डलीभूता सर्पफणामणिमंडलश्रियमुपेयुषी कुण्डलिनीशक्तिः आत्मनः फणेन ब्रह्मरुद्राख्यं सुषुम्नानाडीरन्ध्र मुपगूह्य तिष्ठति । हृदयं-तत्र सूर्यमण्डलम्-तत्र मूर्तिः नाभ्यां उपरि वितस्त्या हृदयं तत्र सर्वं प्रतिष्ठितम् । हृदये अर्कबिंबं तस्मिन् सकारबीजान्वितं सहस्रज्वालायुतं ज्योतिज्र्वलति । तन्मध्ये मण्डलपुरुषो विष्णुमूर्ति. तरुणादित्यसंकाशो हेममयो हिरण्यश्मश्रुकेशनखयुतः पीतांबरधरः श्रीवत्सांकः चतुर्भुजः शंखचक्रधरः अभय सुषुम्नाया अग्रे मुक्तिद्वारं । तस्मिन् शिरः पद्मम् अधोमुखमूर्ध्वमूलं