पृष्ठम्:विमानार्चनाकल्पः.pdf/345

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 90 313

ब्रह्मचर्यकल्पनाक्रोधगुरुशुश्रुषा शौच संतोषाऽऽस्तिक्याऽऽर्जवाइतेि सात्विकलक्षणानि । अहं कर्ता अहं वक्ता अहं भोक्तेत्यादीनि अभिमानगुणानि राजस लक्षणानि । निद्राऽऽलस्य मोह मैथुन स्तेयकर्माणि तामसलक्षणनि ।

                                             सात्विकादीना स्थानम-तल्स्वरूपम्

ऊध्र्वे सात्त्विकाः, मध्ये राजसाः, अधस्तात्तामसा इति सम्यज्ञानं सात्विकं, धर्मज्ञानं राजसं, तिमिरोऽन्धं तामसमिति ।

                                                  जाग्रदाद्यवस्थाभेदः

जाग्रत्स्वप्नसुषुप्तितुर्यमिति चतुर्विधावस्था । ज्ञानेंद्रिय कर्मेन्द्रियाऽन्तःकरण चतुष्टय चतुर्दश करणयुतं जाग्रत् । अन्तःकरण चतुष्टयमात्रयुक्तं स्वप्नं, चित्तैककरणयुता सुषुप्तिः । केवलजीवयुक्त मेव तुर्यमिति । (उन्मीलितजीवमध्यस्थ) परमात्मजीवात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इति विज्ञायते । सोपि पश्चमहाभूताः देहेंद्रियभूतगुणः करण चतुष्टयानि इत्येतैः पंचविंशात्मकः पुरुषः तस्मात्पंच विंशात्मको देह इति विज्ञायते । इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे भूरादि तत्वप्रकाशोनाम एकोननवतितमः पटलः ॥८९॥ (मातृकान्तरे ८३)

                                            अथ ननतितमः पटलः
अथाते देहलक्षणं वक्ष्ये-- 

स्वांगुलीभिः षण्णवत्यंगुलो देहः। तद्वादशांगुलाधिकः (कः प्रमाणः) प्राणः प्राणायामेन समो भवति । (वह्निमण्डलम्,तत्पुरुष:,)(गुदादरभ्य द्वय गुलादूध्र्व मेढूं में 啤 येकांगुल देह) देहमध्यम्। तस्मिन्हेमार्भत्रिकोर्ण बहिमण्डलम्। तन्मध्ये बिन्दुनारेफबीजं ज्वलति तन्मध्ये मण्डल पुरुषो यज्ञमूर्त्तिः पिंगलाभः द्विशीर्षः चतुःशृगः षण्णेत्रः समहुस्तॊ दक्षिणे अभयस्रं वामे वरद स्रुक्खेटयुतः, त्रिपादः, पीतांबरधरः (श्रीवत्सान्क:) किरीटकेयूर। दक्षिणवामयोः स्वाहास्वधाभ्यांसहितः, सर्वदेवैः परिवृतः स्थित:।