पृष्ठम्:विमानार्चनाकल्पः.pdf/343

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पटल: 88 311

                                                           अष्टाशीतितमः पटलः

अथ देहोत्पत्ति प्रकारः- ओषधीभ्योन्नमुपजायते, तदन्नं ऱिविघं भवति,एकं मूऋं,एकं पुरीषं, एकं पुरुषाणां शुक्लं, स्त्रीणां शोणितं, शुक्लशोणिते (तयो) क्षीरे सर्पिरवसर्वव्यापिनी माया शक्तिर्भवति। पुरुषबीज मूलसंचितंशुक्ल, खीकुचमूल संचितंशोणितंच, संयोगकाले दैवयोगेन वायुनागर्भालयं प्रविशति।

                                                           गर्भस्य वृद्धिक्रमः

तत्रैकरात्रोषितं कलिलं, द्विरात्रोषितंबुद्बुदं, त्रिरात्रो षितंमांसलं, चतुराऱोषितं बन्धुं, अष्टराऱोषितं सुकुमारं, नवराऱोषितंयावानं, दशराऱोषितं वयसं अर्धमासे अ(पि)ण्डाकृतिः, मासे शरीराकृतिः मासद्वये शिरोबाहु प्रदेशा, त्रिमासे जठरकटदेशा, चतुर्थ मासे पाणिपादद्वयं, पवमे मासे रोमरूपाणि, षष्टेमासे अस्थिसंघातं, सममेमासे जीवग्रकाशः अष्टमेमासे (देहः) देहंकारोति नवमे मासे प्रचलन करोति तत्तत ऊध्र्व जायते । षट्कोशविकृत त्वग्रुधिरमांसमेदोस्थिमज्जाशुक्लमिति क्रमेणांऽतर्भूतानि (एकांशीभूतानि) समधातूनि । सप्तधातुमयं गात्रं भवति ।

                                                       पुरुषत्वादि निमित्तम्

शुक्लाधिके पुरुषः शोणिताधिके स्त्री, द्वयोस्तुल्ये नपुंसकं भवति । पुँसो वा खियो वा परस्परभावेन तयोरेको गर्भस्यवर्ण इति विज्ञायते। इति श्रीवैखानसे मरीचिग्रोके विमानार्चनाकल्ये देहोत्पति विधिनाम अष्टशीतितमः पटलः ॥८८॥ (मातृकान्तरे-८२)