पृष्ठम्:विमानार्चनाकल्पः.pdf/342

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

310 विमानार्चनाकल्पे महाशाश्त्रे

कनककमलकुसुमादिमिरपि अलंकृते, अमृतजलपूर्णेश्शतसहस्नॅश्र्वसरितां प्रभासमाने दिव्ये लोके सहस्रादित्य संकाशं हेममयं द्वादशतलैर्युत विमान, नित्यज्ञानक्रियैश्चर्यब्रह्मादिदेव ऋषिभि:नित्य (दिव्य) परिजनैर्युतं मंदिरम् । तस्मिन् व्योमनिलये परमात्मा स्वसंकल्पेन देवीभूषणायुधै: सह आमोदे विष्णुः, प्रमोद महाविष्णुः, सँओदे सदाविष्णुः, वॅकुंठे सर्वव्यापी नारायणः आसीनो भवेत्।

                                      भगवतः सर्वोत्तमत्वम्, इच्छया । जगत्सृष्टिः

‘त मीश्वराणां परमं महेश्वरं तं देवानां परमं च दैवतमितिश्रुतिः । 'यदा यदा प्रजास्सृजेयेति सोकामायत। तदा तदा स्वाभिमताऽनुरूप स्वरूपगुण स्वशक्त्या स्वलीलपैव इमं प्रपर्श्व कार्य कारणभावेन यथापूर्व ससर्ज’ इति श्रुतिः । सर्वेषां जीवानां प्रभोस्सिसृक्षोर्ब्रह्मणः स्वेच्छया भूतान्यसृज्यन्त । ‘आत्मन आकाशः संभूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः श्रुतिः । (तै.उ.२)

                                                             चतुर्मुख्स्योत्पक्तिः

एकदा प्रलयकाले भुजंगपतिभोग (पर्यंक) शयने शयितस्य नारायणस्य नाभिकमले ब्रह्मोभ्दूतो भगवदंश श्र्वतुर्मुखो जगत्सवं सृजतीति विज्ञायते । इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे श्रीवैकुंण्ठलक्षणंनाम समाशीतितमः पटलः ॥८७॥ (मातृकान्तरे ८१)