पृष्ठम्:विमानार्चनाकल्पः.pdf/341

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 87 309

ब्राह्मणम् । तस्मात् प्रधानः परमोऽव्ययो विष्णुः स एव पुरुषः स एवसुंध, पाता, हत्त, अखिलस्य तद्भिन्नाः पुरुषाः ।

                                        श्रियो विष्णुविभूतित्वम्

तद्विष्णोर्विभूतिः श्रीः सा च नित्या आद्यन्तरहिता अव्यक्तरूपिणी प्रमाणाऽप्रमाणसाधारणभूता विष्णो स्संकल्पानुरूपा नित्यानन्दमयी मूलप्रकृतिरूपा शक्तिः तद्भिन्ना प्रकृत्यंशभूता पौष्णि तद्भिन्न स्त्रियः तदात्मिका माया प्रकृतिः, मायीविष्णुः, प्रकृतिपुरुषावेतवनादी ताभ्यां लोक्यवृत्तिः विकारगुणाः सर्वे प्रकृयुत्पन्नाः कार्यं कारण कर्तृत्वेहेतुः प्रकृतिः पुरुषः सुखदुःखानां भोक्तृत्वेहेतुः, प्रकृतिस्थःपुरुषः प्रकृतिजान् गुणान् भुक्ते।

                                          प्रकृतेर्दविध्यदिकम्

सा प्रकृति द्विधाभबति चेतनाचेतनेति, अचेतना पंचभूतैः मनोबुध्यहंकाररूपै रष्टधा भिन्ना । अन्या जीव भूता चेतनेति । तथा प्रकृत्या सदासंश्लिष्टः पुरुषाःप्रकृतिस्थाः जीवात्मानः क्षेत्रज्ञः बहबः, तेपि नित्या अनाद्य वद्यासचित पुण्यपापफलम् भोक्तुं बहुविधं देहं प्रविश्य तत्तदात्माऽभिमानिनः तन्न शुभाऽशुभकर्माणि कृत्वा तत्तत्फलानुरूपंदेहं पुनःपुन:प्राप्य(नि) वर्तन्त इति विज्ञायते । इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे सकलविधिर्नाम षडशीतितमः पटलः ॥८६॥ (मातृकान्तरे ८०)

                                    अथ अप्रशीतितमः पटलः
                            वैकुण्ठस्वरूपम् तत्र प्रमोदादिभेदः
                             तेषु विद्यमान भगवद्रूपाणि

अथातः परमात्मन स्सकाशाद्धिरण्मय मण्ड मभवत्, तदन्तर्गतानां सर्वेषामंण्डाना मुपरि. सनातन(नंनित्य मचिन्त्यं देवैरप्यनभिलक्ष्यं नित्यशुद्ध (बुद्धि) भुक्तस्वभाव पुरुषेनु भूयमानं वैष्णवाण्डम् । तत्र विष्णु लोकाश्चत्वारःआमोदः, संमोदः, प्रमोदः. वैकुण्ठमिति । एकैकस्योपरि यथाक्रमेण भवति । तस्मिन् हेममप्राकार (चतुङ्गर) गोपुरतोरण शतसह्स्रेः