3०8 विमानार्चनाकल्पे महाशास्त्रे
निष्कलस्वनपम्
निष्कलः -- परमात्मनोऽन्यत् न किंचिदस्तीति क्षीरे सर्पिः, तिले
तैलं, पुष्ये गंधः, फले रसः, काष्ठे अग्नि रिव अंतर्बहिश्च तत्सर्वं
व्याप्याऽऽकाशोपमः ‘अन्तर्बहिश्च तत्सर्वं व्याप्यनारायणस्स्थित' इति
‘आकाशशरीख्बँह्मे'ति । अशरीरः शरीरे (षु) व्याप्य तिष्ठति, विश्वव्यापक
शीलत्वाद्विष्णुः दृश्यादृश्यः अत्यच्छः अमलः नित्यः अचिन्त्योऽप्रमेयः
निर्गुणो निश्र्वलो निरवयवों निराधृतो निर्विकल्पो निर्देहोऽनिर्वचनः
अतीन्द्रियः सुसूक्ष्मत्वाद निर्देश्यः सदसदिति ब्रह्मवादिनो वदन्ति । (तत्र)
परंधाम परंयोतिः सर्वशः सर्वशक्तिमग्रः सर्वदवमयः सर्वधर्ममथः
(सर्वाधारमयः) सर्वाधार स्सनातनः ज्ञातृज्ञेयज्ञानहीनः ज्ञानघनः जाग्रत्स्वप्न
सुषुप्तितुरीयस्थानगो बहिः प्रज्ञः प्रज्ञावस्थः स्थूलसूक्ष्मविभागेन
वैश्वानरतेजः स्वरूपेण भुञ्जानः सर्वेषामात्मा गुहायां निहितः ‘अणो-
रणीयान्महतोमहीयानाम्मागुहायां निहितोऽस्य जन्तो ' रिति श्रुतिः ।
तस्मादुदयकमलान्तराकाशोपलब्ध वैश्वानरशिखायां
परमात्मा तिष्ठति । 'तस्या शिखायामध्ये iः। स ब्रह्म
स शिष' इति श्रुतिः । एवं निष्कलमिति विज्ञायते ।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे निष्कलविधिर्नाम
पंचाशीतितमः पटलः ॥८५ || मातृकान्तरे पटल समाप्तिर्नास्ति ||
अथ षडशीतितमः पटलः भगवतो जगत्दृष्टिः तयोर्भेदः
अथ सकलः काष्ठे अग्निर्मथनात् ज्वलन्निव निष्कलात्मको विष्णुः ध्यानमथनने भक्त्या संकल्पनात् सकलो भवति । तस्मादने र्विस्फुलिङ्ग इव ब्रहशानादिदेवतारूपै र्भिन्नत्वात् कुलालचक्रस्थमृदो घटशराबविभेद (दा) इव यद्यढ्पं मनसा भावितं तत्तद्रुपो भूत्वा विष्णुः प्रकाशते। विश्वतभक्षुस्तविश्वतो मुखो विश्वतो बाहु स्तविक्षतसंपात् । संबहुभ्यां नमति संपतमैथुख भूमी जनयन् देव एक'इति श्रुतिः तत्र सर्वव्याप्य शरीरः परमात्मैव सर्वभूतानां प्रभवरक्षणसंहति निमित्तशरीरी भवति । 'अग्निर्वै देवाना मवमो विष्णुः परमस्तदंतरेंण सर्वा अन्यदेवता'इति