पृष्ठम्:विमानार्चनाकल्पः.pdf/339

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 85

            प्राणिहिंसापाप विनाशनं, द्वितीययोकारं वैष्णवं दुष्टपापविनाशनं, नः कारम्
            अदित्यवर्णा इंद्रलोक्प्रर्दूप्रकारं नीलश्यामं रौद्र मीवरलोकप्रर्द , चौकरं
             पीतवर्णी ब्राहं ब्रह्मलोक प्रदंदकारं शुद्धस्फटिकसंकाशं वैष्णवं
            विष्णुलोक्षदं, यत्कार हेमाभं चतुर्वदनयुतं सर्वसिद्धिप्रदं (त्रि) संध्या संयुक्तं
            ‘ओंभूभुवस्सुस्तत्सवितु"रि ति सावित्री शताष्टकं त्रिसंध्यकं मनसा जपेत् ।
             सावित्र्यध्ययनात् आयुः श्रीर्जुहावर्चसं प्रजासमृद्धिः धनधान्यसमृद्धिः भवीत।
              सर्वसंपत्करम्। ऐहिकामुष्मिकफलप्रदं च । इन्कामान् इहलोके चिर
               मनुभवन्ति । पेश्वान्मुक्तिं समालभेरन्नित्याह मरीचिः।
                      इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे सावित्रीमंत्रकल्प
               विधिर्नाम चतुशतितमः घटलः ॥८७(मातृकन्तरे ७९)
                                  अथ पंचाशीतितमः पटलः
               अथ तत्वज्ञानोपदेशविधिः।
                                   तत्वोपदेशोपयुक्तोषोद्धतिः
              अथातो मरीचिं मुनयः प्रणम्य चरितक्रिया ज्ञान योगेषु चतुर्ष
               पूजामार्गेषु चरितं(तक्रिये) भगवता विखनसा सूत्रे विस्तरेण प्रणीतम्,
               (ते) अन्यत्संक्षेपेणोक्तं, तदुपन्यास बहुप्रयोगक्रमेण क्रियामार्गस्त्व
                याप्रणीतः । भगवत्तत्व ज्ञानयोगं च श्रोतुमिच्छाम इति अयाचन्त, तान्
                समीक्ष्य भूयतामिति मरीचिरुवाच
                                    तत्वज्ञानोपदेशविधिं वक्ष्ये-
                                 तत्त्वपदनिर्वचनम् ब्रह्मणः यत्वम्,
                                     तस्य सकलत्वनिष्कलत्वे
                  तस्यभावस्तत्वमिति तस्य परब्रह्मणः परमात्मनो नारायणस्यभावः
                  ‘तत्वं नारायणः पर' इति श्रुतिः । तदवगमनं ज्ञानं तद्विदः ब्रह्म विदः ।
                    तस्मा परमात्मा ज्ञेयः, जीवात्मा ज्ञाता, भृतयो ज्ञानमिति ब्रह्मवादिनो
                     वदन्ति | तंत्र्ह्मणो निष्कलस्सकलश्च स्वभावः }