पृष्ठम्:विमानार्चनाकल्पः.pdf/335

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 83

              काश्यपांऽगिरस इति ऋषयःगावत्र्युघणिग नुष्टुपबृहतीपंतिस्त्रिष्टुप् जगत्यः
               छंदांसि, अग्निर्वायुरर्कीवागीशवरुण इन्द्रो विश्वेदेवा इति देवता गायत्र्याः
               पूर्ववत् । ओमाप इति गायत्री शिरसः ऋषिः ब्रह्म छंदोऽनुष्टप्
               परमात्मादेवता । प्राणसंयमनं कृत्वा सव्याहृतिकां सप्रणवां गायत्रीम् अन्ते
                सशिरस्कां त्रिर्जपेत् ।
                सप्राणायामः तस्य ऋषिब्रह्मछंदोगायत्रं।  परमात्माऽधिदेवता ।
               'आया' न्त्वित्येतस्य वामदेव ऋषिः छन्दोऽनुष्टुप् जगती देवतागायत्री ।
                सावित्र्याः विश्वामित्रऋषिः छन्दोगायत्रं सवितादेवता । 'उत्तमे शिखरे'
                 इत्यस्य वामदेव ऋषिः छन्दोऽनुष्टुप् गायत्रीदेवता। ‘मित्रस्येत्यस्य
                 विश्वामित्र ऋषिः (भूभैरिति गायत्रं ।) आद्यानां त्रिष्टुप्, अन्यस्य छन्दो ।
                 बृहती रवि देवता । 'उद्यंतमस' इत्येषां हिरण्यरूप ऋषिः प्रथमादि
                  यथाक्रमेण अनुष्टुप् त्रिष्टुप् गायत्री जगती अष्णिक् शक्करी इति छन्दो
                  रविर्देवता। ‘यच्छिीत्यादि शुनःशेफ ऋषिः गायत्रं पतिच्छितुष्टुभं।
                  'कितवास' इति 'इमंम'इति च, त्रैष्टुभं, गायत्रम् । ‘तस्यायामि, त्वंन्नो'
                   इत्यादि त्रयाणां त्रिष्टुप् छेदो वरुणो देवता इति । अन्येषां मन्त्राणां सामान्य
                   ऋष्यादीन् स्मृत्वा उचार्य कारयेत् ॥
                              इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्ये ऋषिच्छन्दो
             ऽदेवताविधिर्नामद्व्यशीतितमः पटलः ॥८२॥ (मातृकान्तरे ७७ प०)
                                        अथ त्र्यशीतितमः पटलः
                    अथातो मन्त्राणां कल्पं व्याख्यस्याम-
                                    प्रणवस्य ब्रह्मस्वरूपतादिकम्
                   मन्त्राणां प्राणं प्रणवाकारं ब्रह्मरूपम्, ‘ओमितिब्रह्' (तै० आ० उ१)
                   ति श्रुतिः। तस्माज्जगत्कृत्स्नं प्रणवादन्यं नास्ति भगवन्तं प्रणव इति
               पठ्यते (पठन्ति) । प्रणवं त्र्यक्षरं । अकार उकार मकार इति । तेषां यथाक्रमेण
               ऋग्यजुस्सामाधव(साम) मयाः सत्वरजस्तमोगुणाः श्वेतपीत कृष्णनिभाः
               भूभुवस्वःस्थिता विष्णुब्रहशानाऽधिदेवत्या भवन्ति । अकारो वलयाकारः,
                 उकारः कुटिलाकारः,मकारो बिन्दुनादःप्रणवस्यलिपेरंशोभवति । अकार