पृष्ठम्:विमानार्चनाकल्पः.pdf/332

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

300

              विमानार्चनकल्पे महाशास्त्रे

इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे आघारादि अधिदेवाग्निन्ध्यान विधिर्नाम अशीतितमः पटलः ॥८०॥

             अथ एकाशीतितमः पटलः

यज्ञादीनां विष्णुपूजाङ्गत्वेनानुष्ठान प्रदर्शनम् अथाऽतोनुष्ठानकल्पं व्याख्यास्यामः। सर्ववैदिकाचारास्तपोयज्ञाश्च विष्णुपूजाविधेर्भेद इति वैखानस सूत्रम् तत् सूत्रोक्ताऽनुष्ठानं सर्वं समाचरन्ति ॥

           सर्वकर्मानुष्ठानात्पूर्वमूदर्ध्वपुण्डधारण्म्

नित्यनैमित्तिकानि कर्माणि ऊर्ध्वपुण्डधर एव कुर्यात् । ऊर्ध्व पुण्ड्रधारणा दशुचिः शुचिरेवभवति(वेत्)। सर्वमंगलं वंशवृद्धिं च कारयेत्। ऊर्ध्वपुण्डंविना जपहोमार्चनार्ध्यानादीन्नकुर्यात् । कुर्याच्छेन्निष्फलं भवति । तस्मा दूर्ध्वपुण्डधारयेत्।

                पुण्ड्रधारणयोग्यमृग्रहणम्

पर्वताऽग्रे नदी तीरे तीर्थस्थानेषु विष्ण्वालये गृहीत मृदं उत्तमम् । तुलसीमूले वल्मीके च गृहीतमृदं मध्यमं । अन्यस्मिन् शुचौदेशे गृहीतं मृदमधमम् ।

                    द्रव्यान्तराणि

चन्दनादि सर्वगन्धद्रव्यैरुत्तमम् ।श्रीपत्रतुलसीबिल्वैश्च मध्यमं, पञ्चगव्यैः शीततोयेन (भस्मना) अधमम् एतैर्द्रव्यै धारयेत्। श्वेतंसर्वसिद्धिदं, श्यामं सर्वशान्तिकरं, पीतं श्रीकरं, रक्तं वश्यकरमिति ।

                 पुण्ड्रस्य दीयाद्यकृतित्वम्

हृदये महानग्निर्ज्वलति तस्य शिखा ज्वाला रूप वदूर्ध्वाग्रमूर्ध्वा पुण्ड्रेकुर्यात् । अथवा दीपाकृति र्वेणुपत्राकृति पद्मोत्पलकुमदानं मुकुलाकृति मत्स्यकूर्मशूर्पशंख दण्डाकृति वा ऋजु सुपार्श्र्व मूध्वपुण्ड्रंकुर्यात्