पृष्ठम्:विमानार्चनाकल्पः.pdf/331

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 80 (कूर्चामा मनं ब्रह्म, ग्रंथिर्विष्णुः,शेषमीश्वरदेवत्यम्,परिस्तरण- कूर्चानां (चतुर्णा) विष्णुः दक्षिणप्रणिधौ ब्र्ह्मा, उत्तरप्रणिध्या सोमः पश्चिमपरिधेर्गन्धर्वः दक्षिण परिधेरिन्द्रः, उत्तरपरिधे मित्रावरुणी(वा). आग्नेयोऽधोर्ध्वसमिधिः प्रजापतिरीशः, वर्षिष्ठसामिधोर्जह्वादेरग्निः सुवस्य सोमः,आज्यस्थालीदव्श्च पृथिवी, चरुस्सर्व देवत्यंश्व,आज्यस्याऽग्निः इन्धनस्य सर्वदिवताः, अन्येषां होमद्रव्याणां सविता, श्रीदेवत्यं बैल्वं, पालाशमाग्नेयं, नैयग्रोधं याम्यं, सौम्यं औदुंबरं,सौरं आश्र्वत्थं, शम्यं वायव्यं, खदिरं ब्राह्मं, इत्यधिदेवता भवंति। दैवतहीने अज्ञाते अग्निरिति विज्ञायते ।

            कुंण्डे अग्नि मूर्तिध्यानम्

अथाऽग्निकुंण्डस्य मध्ये पश्चिमाभिमुखं ब्राह्म मासन मासीनं सर्वदैवतैः परिवृतं स्क्तवर्णं त्रिपादं द्विशीर्षं चतुश्श्रोत्रं चतुश्श्रृंगं द्विनासिक मास्थद्वयं षण्णेत्रं मकुटाद्याभरणान्वितं ससहस्तं दक्षिणेस्रुवाऽक्षमाला- खडाशक्तियुतं वामे तोमरव्यजनखेटकधृतपात्रयुतं त्रिहस्तम् अजवाहनं दक्षिणबामयोः स्वाहास्वधाभ्यां संयुतं इध्यहोमे स्थितम्, अन्नहोमेत्वासीनम् आज्यहोमे शयितमिति ध्यायेत् ।

       सप्तनां जिह्मनां नामनि-वर्ण: तत्र होमद्रव्याणि

"हिरण्या कनका रक्ता कृक्ष्णाचैव वसुप्रभा अतिरक्ता बहुरूपा'" इति सप्त जिह्मः। तासु ऐशान्ये हेमाभा हिरण्यायां समिद्धोमं, इंद्रं श्यामाभा कनकायां आज्य होमं, आग्नेय्यां रक्ताभा रक्तयां यवहोमं, नैऋत्यांनीलाभा कृष्णायां लाजहोमं,वरुणे पीताभा वसुप्रभायासक्तुहोमं, वायव्ये श्वेताभा अतिरक्तायां तिलं, दक्षिणोत्तरयोर्मध्ये बहुवर्णनिभा बहुरूपाया मिध्य- चरुहोमे सप्तजिज्ञासु च क्रमेण समसमिद्मम्, अन्याऽग्निन्द्रव्याणि सर्वाणि मध्यमस्ये जुहुयात् ।

        अग्नेः श्रोत्रादि स्थानं विज्ञाय ज्वलदग्नौ होमस्य
                   कर्तव्यता

यत्रकाष्टं तत्रश्रोत्रं धूभो नासिका अल्पज्वलितानेत्रे भस्म शीर्षमिति ज्ञात्वा श्रोत्रेहुते व्याधिपीड़ितम्, चक्षुष्यंधत्वं नासिकायां महारोगः मस्तकेः मंस्तके सर्वनाशः तस्मा दन्गै ज्वलने जुहुयादित्याह मरीचिः ॥