पृष्ठम्:विमानार्चनाकल्पः.pdf/325

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 77 29. कर्षणादिभि स्संस्कारै स्सम्स्कृत्य प्रतिष्ठां कारयेत् । ततःप्रभृति तेनैव सर्वं समाचरेदिति विज्ञायते। अनुक्तदोषप्रायं

अनुक्तदोषप्रायास्चित्तं वक्ष्ये -

अत्राऽनुक्तेषु दोषेषु सर्वेषु पौण्डरीकाऽग्नौ वैष्णवं षट्कृत्वो व्याहृतीश्वतुष्क्रुत्वः । अष्टाक्षरमष्टकृत्वो, द्वादशाक्षरं द्वादशकृत्वो,हुत्वा विष्णुसूक्तं, पुरुषसूक्तम्, एकाक्षरादिसूक्तं श्रीसूक्तं महीसूक्तं च, हुत्वा देवं संस्नाप्याऽभ्यर्च्य हविर्निवेदयेत् । तत् तद्दोषोयशमनं सर्वशांतिकरं भवति । महादोषेषु एतैस्सह पारमात्मिकमींकार(रादि) मष्टशीतिं सर्वदेवत्यं च हुत्वा, अष्टोत्तरकलशैः देवं संस्नाप्य अभ्यर्च्य महाहविर्निवेदयेत् । एतत्सामान्यप्रायश्चित्तं भवति । शान्ति होमविधानेन वैष्णवं,विष्णुसूक्तं पुरुषसूक्तं च जुहुयात् । महाशांति विधाने च तैस्सह पारमात्मिक- मीकाराद्यष्टाशीति मेकाक्षरादिसूक्तं, श्रीसूक्तं, महीसूक्तं च, जुहुयादिति केचिदिति आह मरीचिः। इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे तंत्रसंकरादि सर्वदोष प्रायश्चित्त विधिर्नाम सप्तसप्ततितमः पटलः ॥७॥ अथ अष्टसप्ततितमः पटलः पवित्रारोपणम् अथ पवित्रारोपणं वक्ष्ये- पवित्रारोपणस्य फलम् सर्वयज्ञफलप्रदं, सर्वदोषोपशमनं, सर्वतुष्टिकरं, सर्वकामप्रदं सर्वलोकशान्तिदं ह्येतन्मन्त्रक्रियाद्रव्यहीनं यत् कृतं तद्दोष शान्त्यर्थं । पवित्रारोपणं कुर्यात् । पवित्रारोपणहीना या पूजा सा निष्फला भवति राजराष्ट्रं विनश्यति । तस्माद्यत्नेन पवित्र मारोपयेत्।