पृष्ठम्:विमानार्चनाकल्पः.pdf/322

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

290 विमानार्चनाकल्पे महाशाख्ने अनावृष्टौ कर्त० । अनावृष्टदोषश्वेच्छीतूकुम्भें निदध्यात्। द्वत्रिशतु प्रस्थसंपूर्ण कुंभ वेतस समिद्रि, पालाशौर्वा, पश्वारुण मटोत्तर सहप्रं श्रामणकाष्ट्रौ हुत्वा दिशाहोमेषु (अष्टसु प्रत्येकं) अष्टोत्तरसहस्रं पश्चवारुणं वेतससमिद्भिः सहस्र जुहुयात्। श्रामणकाग्निमेकमेव वा कुर्यात्। तद्दक्षिणे वज्रपाणिमावाह्य अभ्यर्च्य 'शची सहायेति होतव्यं । देवेशं विशेषतोऽभ्यर्च्य, स्नपनोत्सवादीनि कारयेत्। संकल्य दिने दिने कुम्भ पूरयित्वा सेचयेत्। तहिनान्तेदेवस्य स्नपनंकृत्वा अभ्यर्च्य हविर्निवेदयेत् । अाचार्यादिभ्यः दक्षिणां दद्यात् । तत्तत्कर्माते समग्रावृष्टिः स्यात् । तस्माद्यत्नतः कुर्यात् ॥ अथवा वर्षार्थी, दुर्भिक्षादि सर्वोपद्रवशान्त्यर्थी गोवृद्धिकामी च, स्नपनालय पूर्ववदलंकृत्य आचार्य वस्त्रोत्तरीयाद्ये: पूजयित्वा सोपि श्वभ्रात्प्राच्यांतण्डुलैदक्षिणोत्तरा ऽऽयतां पंतिं कृत्वा श्वभ्राद्दक्षिणस्यां श्रामणकाग्रिकुण्डं कृत्वा, अग्नेि ऽऽपूर्य, तत्पत्त्रुयांनिधाय, पिधानैः पिधाय, अधिदेवमाराध्य, उपरिनववस्रेणाऽऽच्छादयेत् । श्वभ्रपूजान्ते देवं प्रणम्य, स्वस्तिसूतेनाऽऽनम्य, (आनीय) श्वभ्रमध्ये प्रतिष्ठाप्य, अर्चयेत्। क्रमात् क्षीरधारया देवं संस्नापयेत् । अग्निं परिषिच्य, विष्णोर्नुकाद्यैः अतो देवाद्यैः मंत्रेणाष्टाक्षरेण विष्णुगायत्र्याचाऽष्टाधिकसहस्रं जुहुयात् ।