पृष्ठम्:विमानार्चनाकल्पः.pdf/321

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टर्न: 76 289 छनाथैरलंकृत्य स्थंडिले धान्यराशिं विकीर्य तन्मध्ये तण्डुलेनाऽट गुलादहीनानि अष्टमंगल पश्चायुधवर्णचिहानि रत्नस्वर्णरजतताम्रकांस्यत्रपुसीसाऽऽयसतीक्षणकान्तानि आदित्यादि नवग्रहरूपाणिच विक्षिप्य शुद्धजलेनापूर्य निधाय कपूरलालवंगचंदनोशीरादि सर्वगन्धद्रव्याणि च, अशोकाश्वत्थपछ्वानि च, निक्षिप्य तन्मुखं तन्तुना वेष्टितपिधानेन पिदध्यात् । अाचार्यम् ऋत्विजश्च वरयित्वा नववस्रोत्तरीयां गुलीयकाद्यै रलं (कुर्यात्। कृत्य अग्निकुण्डेष्वाघारं हुत्वा आदित्यांगारकमन्दबुधसित अष्टाक्षरेणाऽयुतम्, अष्टोत्तरसहस्रं वा अभिमृश्य गृह शांत्युक्तविधानेन तत्तद्देवत्यं, चरुसमिधाज्यादिभि र्नित्य मष्टोत्तरसहस्र हुत्वा श्रामण कानौ बिल्वपत्रै र्धृताऽऽप्लुतै र्नित्यमष्टोत्तरसहस्र मष्टाक्षरेण हुत्वा विष्णुगायत्र्या बिल्व समिधाज्य चरुस लाजऽपूपन्रीहितिलुदूर्वापदैश्धप्रत्येकमाचार्यांहुवा यद्देवालये दोषश्धेत् कुंभपाश्र्वे स्थंडले तं देवं संस्थाप्य अभ्यच्र्य हविर्निवेद्य देवसन्निधौ। होर्म हुत्वा अन्ते नवाह, समाहवा, उत्सवं कारयेत्। दिव्यान्तरिक्षयोः कुंभजलेन राजान मभिषेचयेत् । भौमेन तं देशं संप्रोक्ष्य अवशिष्टजलेन राजनं, राजपत्नीं चाऽभिषेचयेत् ।