पृष्ठम्:विमानार्चनाकल्पः.pdf/320

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

288 विमानार्चनाकल्पे महाशास्त्रे

अकालस्फोटनादिकेपि तद्वद्वल्मीकोद्भवे देवबेरार्चापीठालया भ्यन्तरेषु तरुणालये देवं प्रतिष्ठाप्य यावद्दोषदर्शनं तावत् खनित्वा सर्वत्र संशोध्य पञ्चगव्या दिनाऽभ्युक्ष्य पुनस्संधानंकृत्वा पुनःस्थापनमाचरेत्। प्रासादबाह्ये शैलेष्टकाविवरेचोत्पन्ने सूक्ष्मशस्त्रेण शिल्पिना, अन्येनवा, व्यवशसिते रन्ध्रे वा, हिंगुमरीचादीनि जले पेषयित्वा आपुर्य, अश्मना शर्करानालिप्य,दिव्यशान्तिं कुर्यात्। पुनरुत्थितं चेत् एवं समाचरेत ।

मक्षिकादर्शने तद्व्यपोह्म शुद्धं कृत्वा शांति मारभेत । अस्पृश्यस्पर्शने शुद्धिं कृत्वा शांतिं समाचरति । स्थूणादि रोहणादिषु पुनस्संधानं कृत्वा शान्तिमारभेत ।। अकरणेवृक्षपतनादिषु तत्संत्यज्य; शान्तिं कुर्यात् । राजगृहे चोत्पन्ने राजानं वेश्माऽन्तरं प्रवेश्य, शान्तिं कृत्वा पुनरभिषेकं कृत्वा देवब्राह्मणानुज्ञया पुनर्गृहप्रवेशं कारयेत् । इति श्रीवैखानसे मरिचिप्रोक्ते विमानार्चनाकल्पे उत्पातशांति विधिर्नाम पंचसप्ततितमः पटलः ७०॥

             अथ षट्सप्ततितमः पटलः 
                  शान्तिभेदः

अथ उत्तमोत्तमोत्तम मध्यमोत्तम मध्यमाऽधमाऽस्पृश्यानां यथाक्रमेण अद्भुतशान्तिः प्रभूतशान्तिः महाशान्तिः शान्तिः शुद्धिरिति शान्तिः पंचधा भवति ।

तासु अद्भुतशान्तिं वक्ष्ये-देवालयाऽभिमुखे उत्तरे च ऐशान्यां वा,

पर्वताग्रे तटाकतीरे वा, सण्टपं प्रपां कूटं वा, षोडशस्तंभयुतं, चतुर्हस्त- प्रमाणस्तंभांतरं तालोन्नत तलयुतं कृत्वा मध्ये श्रमणकाऽग्निकुंडं कृत्वा अधस्तात् द्वादशांगुलं खनित्वा तत्प्राच्यां द्विहस्तायतबिस्तारं हस्त मात्रसमुत्सेधं स्थंडिलं कृत्वा प्रागादि चतुर्दिक्षु आहवनीयाऽन्वाहार्य गार्हपत्याऽऽवसथ्यकुण्डानि कृत्वा आग्नेयादीषु कोणेषु औपासनाग्नि कुण्डानि कृत्वा द्वारेषु तोरण पूर्णकुंभकदलीपताकांकुर दर्भमूलस्तंभवे