पृष्ठम्:विमानार्चनाकल्पः.pdf/318

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

286 विमानार्चनाकल्पे महाशात्रे अद्भुतानां त्रिदिध्यम् अद्भुतानि त्रिविधानि - दिव्यानि, आन्तरिक्षाणि, भौमानि चेति । तत्र दिव्यानि दिव्यानि ग्रहविकार, ग्रहयुद्ध भेदाऽनावृष्टि, सर्व ग्रासोपराग, नक्षत्रभेदानित्येवमादीनि। आन्तरिक्षाणि आन्तरिक्षाणि निरन्तरपरिवेषो वर्णांतरबहुलपरिवेषो रात्राविन्द्र- चापम्, आकाशे देवसद्मअशन्युल्काऽऽपात राहुपुच्छदर्शन, पतन, धूमेन्द्रकेतु, प्रतिसूर्य, नक्षत्रपुच्छ प्रतिचन्द्रादीनि । भौमाना मनेकत्वम् भौमानि चरस्थिरभावा दनेकधा । तत्र चरेषुभौमानि चरेषु - देशकालस्वभावविरुद्धयुग्माधिकप्रसूतिः वानर सर्पा- ऽश्वमार्जारादियोनिजानां, नाग गो हय महिषादि विपरीत योनि जननं, पक्षिसर्पक्रिमि कीटादि विपरीतवर्ण विपरीताकार विपरीतालयवास विपरीताश्रयाश्र्च,आलये रक्तशिथिली सर्पदर्शन मित्येवमादीनि । तेषां दिव्यांतरिक्षभवानि उत्तमोत्तमानि । नरभवानि उत्तमानि । नागगोहयमहिषादिभवानि मध्यमानि । पक्षिसरीसृपादि भवानि अधमानि । स्थिरेषु भौमानि स्थिरेषु प्रतिमारोदन, हसन, जल्पन, परिवर्तन, स्वेद, रुधिरस्राव, ज्वलन, धूमीकृताङ्ग, क्रिमिकीटपतंगाद्युद्भवाकालस्फोटन, धूमांऽग कंपन,स्वापन, तृण,वल्र्मीकोद्भव, रक्तस्त्रीदर्शन, प्रतिलोम, पतित, पाषंडांत्य जाति, सृगालादिवर्णाऽस्पृश्यस्पर्शन, प्रवेशन (स्धूणा) स्तंभविरोहण, चलन, परिवर्तनाऽपसर्पण, भित्तिकवाटासन, शयनाऽऽयुधानि अ(धाS) ग्निहोत्रापस्करविकार मक्षिका वृक्षपतनप्र (परि) वर्त्तनोपसर्पण फलपुष्प पत्रशाखादि विपरीतवर्शन जलरक्तस्रावादीनि ।